Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 335
________________ चित्तपदाभ्यामिति । तत्र सचित्तमिश्रपदाभ्यामियं-सचित्ते सचित्तं मिश्रे सचित्तं सचित्ते मिश्र मिश्रे मिश्रमिति, द्वितीया स्वियं-सचित्ते सचित्तम् अचित्ते सचित्तं सचित्तेऽचित्तम् अचित्तेऽचित्तमिति, तृतीयेयं-मिश्रे मिश्रम् अचित्ते मिश्र मिश्रेऽचित्तम् अचित्तेऽचित्तमिति, तत्र गाथापर्यन्ततुशब्दस्यानुक्तसमुच्चयार्थत्वादाद्यायां चतुर्भनिकायां सकलायामपि प्रतिषेधः, शेषे तु चतुर्भङ्गीद्वये प्रत्येकम् , 'आदित्रिके' आदिमेषु त्रिषु त्रिषु भङ्गषु प्रतिषेधः, चरमे तु भङ्गे भजना वक्ष्यमाणा । अत्रैवातिदेशं कुर्वन्नाहजह चेव य संजोगा कायाणं हेट्टओ य साहरणे । तह चेव य उम्मीसे होइ विसेप्तो इमो तत्थ ॥ ६०६ ॥ व्याख्या-यथा चैवाधः प्राक् संहरणद्वारे 'कायानां ' पृथिवीकायादीनां सचिचाचिचमिश्रभेदभिन्नानां स्वस्थानपर स्थानाभ्यां संयोगा-भङ्गाः प्रदर्शिता द्वात्रिंशदधिकचतुःशतसङ्ख्याप्रमाणाः, तथैव 'उन्मिश्रितेऽपि ' उन्मिश्रद्वारेऽपि दर्शनीयाः, तद्यथा-सचित्तथिवीकायः सचित्तपृथिवीकाये उन्मिश्रः, सचित्तपृथिवीकायः सचित्ताकाय उन्मिश्र इत्येवं स्वस्थानपरस्थानापेक्षया पत्रिंशसंयोगाः, एकैकस्मिंश्च संयोगे सचित्तमिश्रपदाभ्यां सचित्ताचित्तपदाभ्यां च प्रत्येकं चतुर्भङ्गीति द्वादशभिर्गुणिता जातानि चत्वारि शतानि द्वात्रिंशदधिकानि, ननु संहृते उन्मिश्रे च सचित्तादिवस्तुनिक्षेपान्नास्ति परस्परं विशेषः, अत आह-'तत्र' तयोः संहृतोन्मियोर्भवति परस्परमयं विशेषो-वक्ष्यमाणः । तमेवाह दायव्वमदायव्वं च दोऽवि दव्वाइं देइ मीसेउं । ओयणकुसुणाईणं साहरण तयन्नहिं छोढं ॥ ६०७ ॥ __व्याख्या-'दातव्यं ' साधुदानयोग्यामतरत् अदातव्यं, तच्च सचित्तं मिथ तुषादिर्वा, ते वे अपि द्रव्ये मिश्रयित्वा यददाति, Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366