Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
___ पंडग अप्पडिसेवी वेला थणजीवि इयर सम्बंपि । उक्खित्तमणावाए न किंचि लग्गं ठवंतीए॥६.१॥
व्याख्या-नपुंसकोऽपि यदि 'अप्रतिसेवी' लिङ्गाधनासेवकस्तहि ततः कल्पते, तथाऽऽनसत्वाऽपि यदि वेल 'चि 'सूचनात्सूत्र' मितिन्यायाद्वेलामासमाप्ता भवति, नवममासगर्भा यदि भवतीत्यर्थः, तर्हि स्थविरकल्पिकैः परिहार्या, अर्थात्तद्विपरीताया हस्तास्थविरकल्पिकानामुपकल्पते इति द्रष्टव्यं, तथा याऽपि बालवत्सा स्तन्यमात्रोपजीविशिशुका सा स्थविरकल्पिकानां परिहार्या, न ततः स्थविरकल्पिकानामपि कल्पते किमपीति भावः, यस्यास्तु बाल आहारेऽपि लगति तस्था हस्ताकसते, स हि प्रायः शरीरेण महान् भवति, ततो न मार्जारादिविराधनादोषमसङ्गः, ये तु भगवन्तो जिनकल्पिकास्ते मूलत एवापन्नसत्त्वां बालवत्सां च सर्वथा परिहरन्ति, एवं भुञ्जानाभजमानादलन्तीष्वपि भजना भावनीया, सा चैवं-भुञ्जाना अनुच्छिष्टा सती यावदद्यापि न कवलं मुखे प्रक्षिपति तावत्चद्धस्तात्कल्पते, भर्जमानाऽपि यत्सचित्तं गोधूमादि कडिलके क्षिप्तं तदृष्ट्वोत्तारितमन्यच नाद्यापि हस्तेन गृह्णाति, बान्तरे यदि साधुरायातो भवति सा चेद्ददाति तर्हि कल्पते, तथा दलयन्ती सचित्तमुद्गादिना दल्यमानेन सह घरट्ट मुक्तवती अत्रान्तरे च साधुरायातो भवति सा चेतस्ततो यात्तिष्ठति, अचेतनं वा भृष्ट मुगादिकं दलयति तहिं तद्धस्तात्कल्पते, कण्डपन्या कण्डनायोत्साटितं मुशलं, न च तस्मिन् मुशले किमपि काञ्च्यां बीजं लग्नमस्ति, अत्रान्तरे च समायातः साधुस्ततो यदि साऽनपाये प्रदेश मुशलं स्थापयित्वा मिक्षां ददाति तहि कल्पते । पित्यादिविषयां भजनामाह
पीसंती निपिढे फासंवा घसलणे असंसत्तं । कत्तणि असंखचन्नं चन्नं वा जा अचोक्खलिगी॥ ६.२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366