Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 332
________________ पिण्डनिर्युकेर्मलयगि रीयावृत्तिः ॥१६३॥ सुइभद्दग दित्ताई दढग्गहे वेविए जरंभि सिवे । अन्नधरियं तु सड्ढों देयंधोऽन्नेण वा धरिए ॥ ५९९ ॥ I व्याख्या – उन्मत्तो- हप्तादिर्दप्तग्रहगृहीतादिः स चेत् शुचिर्भद्रकश्च भवति तदा तद्धस्तात्कल्पते, नान्यथा, वेपितोऽपि यदि दृढहस्तो भवति-न हस्तेन गृहीतं किमपि तस्य पतति तदा तस्मादपि कल्पते, ज्वरितादपि ग्राह्यं ज्वरे शिवे सति, अन्धोऽपि यदि देयं वस्त्वन्येन पुत्रादिना धृतं ददाति स्वरूपेण श्राद्धश्व, यदिवा स एवान्धोऽन्येन विवृतः सन् देयं ददाति तहिं ततो ग्राह्यं, नान्यथा, पूर्वोक्तदोषप्रसङ्गात् । त्वग्दोषादिपञ्चकविषयां भजनामाह मंडलपति कुट्ठी सागर पाउयागए अयले । कमबद्धे सवियारे इयरे विट्ठे असागरिए ॥ ६०० ॥ व्याख्या - ' मण्डलानि ' वृत्ताकार ददुविशेषरूपाणि 'प्रसूतिः' नखादिविदारणेऽपि चेतनाया असंवित्तिस्तद्रूपो यः 'कुष्ठः रोगविशेषः सोऽस्यास्तीति मण्डलप्रसूतिकुष्ठी स चेद् ' असागारिके ' सागारिकाभावे ददाति तर्हि ततः कल्पते, न शेषकुष्ठिनः सागारिके वा पश्यति, पादुकारूढोऽपि यदि भवत्यचलस्थानस्थितस्तदा कारणे सति कल्पते, तथा 'क्रमयोः पादयोर्बद्धो यदि सविचार| इतश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततो बद्धादपि तस्मात्कल्पते, इतरस्तु य इतश्चेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च * कोऽपि तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते, हस्तबद्धस्तु भिक्षां दातुमपि न शक्नोति, तत्र प्रतिषेध एव, न भजना, उपलक्षणमेतत्, तेन छिन्नकरोऽपि यदि सागारिकाभावे ददाति तर्हि कल्पते, छिन्नपादो यद्युपविष्टः सन् सागारिकाऽसम्पाते प्रयच्छति ततस्ततोऽपि कल्पते । नपुंसकादिसप्तकविषयां भजनामाह Jain Education International For Personal & Private Use Only एषणायां ६ दायक दोषाप वादाः ॥१६३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366