________________
पिण्डनिर्युकेर्मलयगि
रीयावृत्तिः ॥१६३॥
सुइभद्दग दित्ताई दढग्गहे वेविए जरंभि सिवे । अन्नधरियं तु सड्ढों देयंधोऽन्नेण वा धरिए ॥ ५९९ ॥
I व्याख्या – उन्मत्तो- हप्तादिर्दप्तग्रहगृहीतादिः स चेत् शुचिर्भद्रकश्च भवति तदा तद्धस्तात्कल्पते, नान्यथा, वेपितोऽपि यदि दृढहस्तो भवति-न हस्तेन गृहीतं किमपि तस्य पतति तदा तस्मादपि कल्पते, ज्वरितादपि ग्राह्यं ज्वरे शिवे सति, अन्धोऽपि यदि देयं वस्त्वन्येन पुत्रादिना धृतं ददाति स्वरूपेण श्राद्धश्व, यदिवा स एवान्धोऽन्येन विवृतः सन् देयं ददाति तहिं ततो ग्राह्यं, नान्यथा, पूर्वोक्तदोषप्रसङ्गात् । त्वग्दोषादिपञ्चकविषयां भजनामाह
मंडलपति कुट्ठी सागर पाउयागए अयले । कमबद्धे सवियारे इयरे विट्ठे असागरिए ॥ ६०० ॥
व्याख्या - ' मण्डलानि ' वृत्ताकार ददुविशेषरूपाणि 'प्रसूतिः' नखादिविदारणेऽपि चेतनाया असंवित्तिस्तद्रूपो यः 'कुष्ठः रोगविशेषः सोऽस्यास्तीति मण्डलप्रसूतिकुष्ठी स चेद् ' असागारिके ' सागारिकाभावे ददाति तर्हि ततः कल्पते, न शेषकुष्ठिनः सागारिके वा पश्यति, पादुकारूढोऽपि यदि भवत्यचलस्थानस्थितस्तदा कारणे सति कल्पते, तथा 'क्रमयोः पादयोर्बद्धो यदि सविचार| इतश्चेतश्च पीडामन्तरेण गन्तुं शक्तस्ततो बद्धादपि तस्मात्कल्पते, इतरस्तु य इतश्चेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च * कोऽपि तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते, हस्तबद्धस्तु भिक्षां दातुमपि न शक्नोति, तत्र प्रतिषेध एव, न भजना, उपलक्षणमेतत्, तेन छिन्नकरोऽपि यदि सागारिकाभावे ददाति तर्हि कल्पते, छिन्नपादो यद्युपविष्टः सन् सागारिकाऽसम्पाते प्रयच्छति ततस्ततोऽपि कल्पते । नपुंसकादिसप्तकविषयां भजनामाह
Jain Education International
For Personal & Private Use Only
एषणायां
६ दायक
दोषाप
वादाः
॥१६३॥
www.jainelibrary.org