________________
कंपापडीया व ते कुणइ जाणमाणोऽवि । एसणदोसे बिइओ कुणइ उ असढो अयातो ॥ ५९६ ॥
व्याख्या -सदैवैते महानुभावा यतयोऽन्तमान्तमशनमश्नन्ति तस्मात्करोम्येतेषां शरीरोपष्टम्भाय घृतपूरादीनीत्येवमनुकम्पया यदिवा मयैतेषामनेपणीयाग्रहणनियपभङ्गो भङ्गव्य इति प्रत्यनीकार्थतया जानानोऽपि तानाधाकर्मादिरूपानेषणादोषान् करोति, द्वितीयस्तु करोति अजानानः अशठभावः । तदेवं व्याख्यातानि चत्वारिंशदपि बालादिद्वाराणि, सम्प्रति यदुक्तम्- ' एएसि दायगाणं गहणं केसिंचि होइ भइयव्वं ' इत्यादि, तयाचिख्यासुः प्रथमतो बालमाश्रित्य भजनामाह
भिक्खामित्ते अवियालणा उ बालेण दिज्जमाणंमि । संदिट्ठे वा गहणं अइबहुय वियालणेऽणुन्ना ॥ ५९७ ॥
व्याख्या - मातुः परोक्षे भिक्षामात्रे बालेन दीयमाने यदिवा पार्श्ववर्त्तिना मात्रादिना सन्दिष्टे सति तेन बालेन दीयमानेऽविचारणा-कल्पते इदं न वेति विचारणाया अभावः किन्तु ग्रहणं भिक्षाया भवति, अतिवहुके तु बालेन दीयमाने किमद्य त्वं प्रभूतं ददासीति | विचारणे सति यद्यनुज्ञा - पार्श्ववत्तिमात्रादिसत्कमुत्कलना भवति तदा ग्राह्यं नान्यथा । सम्प्रति स्थविरमत्तविषयां भजनामा -
थेर पहु थरथरते धरिए अन्नेण दढसरीरे वा । अव्वत्तमत्तसड्ढे अविभले वा असागरिए ॥ ५९८ ॥
व्याख्या - स्थविरो यदि प्रभुर्भवति, ' थरथरंते 'ति कम्पमानो यद्यन्येन विधृतो वर्त्तते स्वरूपेण वा दृढशरीरो भवति तर्हि ततः कल्पते, तथाऽव्यक्तं मनाकू यो मत्तः सोऽपि यदि श्राद्धोऽविहलच - अपरवशश्च भवति ततस्तस्मादेवंविधान्मत्तात् तत्र सागारिको न विद्यते तर्हि कल्पते नान्यथा ॥ उन्मत्तादिचतुष्कविषयां भजनामाह
Jain Education International
For Personal & Private Use Only
jainelibrary.org