________________
एषणार्या दायकदोष:४०
पिण्डनियु- ॥ सत्त्वव्याघात:, अपि च तथाभूतस्य महत उत्पाटने दाच्याः पीडाऽपि भवति, तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते । सम्मति साधारणं तेर्मलयगि- चोरितकं वा ददत्या दोषानाहरीयावृत्तिः साधारणं बहूणं तत्थ उ दोसा जहेव अणिसिटे। चोरियए गहणाई भयए सुण्हाइ वा दंते॥ ५९४ ॥ ॥१६२॥ व्याख्या-बहूनां साधारणं यदि ददाति तर्हि तत्र यथा प्रागनिसृष्टे दोषा उक्तास्तथैव द्रष्टव्याः । तथा चौर्येण भृतके-कर्मकरे
स्नुषादौ वा ददति 'ग्रहणादयः' ग्रहणबन्धनताडनादयो दोषा द्रष्टव्याः, तस्माचतोऽपि न कल्पते । सम्पति प्राभृतिकास्थापनादिद्वारत्रयदोषानाहपाहुडि ठवियगदोसा तिरिउड्ढमहे तिहा अवायाओ। धम्मियमाई ठवियं परस्स परसंतियं वावि ॥ ५९५॥
व्याख्या-प्राभृतिका बल्यादिनिमित्तं संस्थाप्य या ददाति भिक्षां तत्र दोषाः प्रवर्तनादयः । सम्पति 'अपाये 'ति द्वारेऽपायात्रिविधाः, तद्यथा-तिर्यगूर्द्धमघश्च, तत्र तिर्यग्गवादिभ्य ऊर्द्धमुत्तरङ्गकाष्ठादेरधः सर्पकण्टकादेः, इत्थं च त्रिविधानामप्यपायानामन्यतममपायं बुद्धया सम्भावयन्न ततो भिक्षां गृह्णीयात् , 'परं चोद्दिश्ये ति यदुक्तं, तत्राह-'धार्मिकाद्यर्थम् ' अपरसाधुकापेटिकाभृतिनिमित्तं यत् स्थापितं तत्परस्य परमार्थतः सम्बन्धीति न गृह्णीयात् , तद्भहणेऽदत्तादानदोषसम्भवात् , यद्वा 'परसंतियं व 'त्ति परस्यग्लानादेः सत्कं यद्ददाति तदपि स्वयमादातुं न कल्पते, अदत्तादानदोषात, किन्तु यस्मै ग्लानाय दापितं तस्मै नीत्वा दातव्यं, स चेन्न गृह्णाति तहिं भूयोऽपि दाव्याः समानीय समर्पणीयं, यदि पुनरेवं दात्री वदति-यदि ठलानादिको न गृह्णाति तर्हि स्वयं ग्राह्यमिति, तर्हि ग्लानायग्रहणे तस्य कल्पत इति । सम्पत्याभोगानाभोगदायकस्वरूपमाह
२॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org