________________
चित्तपदाभ्यामिति । तत्र सचित्तमिश्रपदाभ्यामियं-सचित्ते सचित्तं मिश्रे सचित्तं सचित्ते मिश्र मिश्रे मिश्रमिति, द्वितीया स्वियं-सचित्ते सचित्तम् अचित्ते सचित्तं सचित्तेऽचित्तम् अचित्तेऽचित्तमिति, तृतीयेयं-मिश्रे मिश्रम् अचित्ते मिश्र मिश्रेऽचित्तम् अचित्तेऽचित्तमिति, तत्र गाथापर्यन्ततुशब्दस्यानुक्तसमुच्चयार्थत्वादाद्यायां चतुर्भनिकायां सकलायामपि प्रतिषेधः, शेषे तु चतुर्भङ्गीद्वये प्रत्येकम् , 'आदित्रिके' आदिमेषु त्रिषु त्रिषु भङ्गषु प्रतिषेधः, चरमे तु भङ्गे भजना वक्ष्यमाणा । अत्रैवातिदेशं कुर्वन्नाहजह चेव य संजोगा कायाणं हेट्टओ य साहरणे । तह चेव य उम्मीसे होइ विसेप्तो इमो तत्थ ॥ ६०६ ॥
व्याख्या-यथा चैवाधः प्राक् संहरणद्वारे 'कायानां ' पृथिवीकायादीनां सचिचाचिचमिश्रभेदभिन्नानां स्वस्थानपर स्थानाभ्यां संयोगा-भङ्गाः प्रदर्शिता द्वात्रिंशदधिकचतुःशतसङ्ख्याप्रमाणाः, तथैव 'उन्मिश्रितेऽपि ' उन्मिश्रद्वारेऽपि दर्शनीयाः, तद्यथा-सचित्तथिवीकायः सचित्तपृथिवीकाये उन्मिश्रः, सचित्तपृथिवीकायः सचित्ताकाय उन्मिश्र इत्येवं स्वस्थानपरस्थानापेक्षया पत्रिंशसंयोगाः, एकैकस्मिंश्च संयोगे सचित्तमिश्रपदाभ्यां सचित्ताचित्तपदाभ्यां च प्रत्येकं चतुर्भङ्गीति द्वादशभिर्गुणिता जातानि चत्वारि शतानि द्वात्रिंशदधिकानि, ननु संहृते उन्मिश्रे च सचित्तादिवस्तुनिक्षेपान्नास्ति परस्परं विशेषः, अत आह-'तत्र' तयोः संहृतोन्मियोर्भवति परस्परमयं विशेषो-वक्ष्यमाणः । तमेवाह
दायव्वमदायव्वं च दोऽवि दव्वाइं देइ मीसेउं । ओयणकुसुणाईणं साहरण तयन्नहिं छोढं ॥ ६०७ ॥ __व्याख्या-'दातव्यं ' साधुदानयोग्यामतरत् अदातव्यं, तच्च सचित्तं मिथ तुषादिर्वा, ते वे अपि द्रव्ये मिश्रयित्वा यददाति,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org