Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 327
________________ - विनाशयेत्, तथाऽऽहारखरण्टितौ शुष्को हस्तौ कर्कशौ भवतः, ततो भिक्षां दत्वा पुनःच्या हस्ताभ्यां गृह्यमाणस्य बालस्य पीडा भवेत् , ततो बालवत्सातोऽपि न ग्राह्यम् । भुञ्जानां मथ्नतीं चाश्रित्य दोषानाहभुजंती आयमणे उदगं छोट्टी य लोगगरिहा य । घुसलंती संतत्ते करंमि लित्ते भवे रसगा॥ ५८७ ॥ व्याख्या-भुञ्जाना दात्री भिक्षादानार्थमाचमनं करोति, आचमने च क्रियमाणे उदकं विराध्यते, अथ न करोत्याचमनं ताई लोके छोटिरितिकृत्वा गर्दा स्यात् । तथा 'घुसुलती' दध्यादि मनती यदि तद्दध्यादि संसक्तं मनाति तर्हि तेन संसक्तदध्यादिना लिप्ते करे तस्या भिक्षां ददत्यास्तेषां रसजीवानां वधो भवति, ततस्तस्या अपि हस्तान्न कल्पते । सम्पति पेषणादि कुर्वत्या दोषानुपदर्शयति दगबीए संघट्टण पीसणकंडदल भज्जणे डहणं । पिंजंत रंचणाई दिने लित्ते करे उदगं॥ ५८८॥ व्याख्या-पेषणकण्डनदलनानि कुर्वतीनां हस्ताद्भिक्षाग्रहणे उदकवीजसङ्घटनं स्यात्, तथाहि-पिंपन्ती यदा भिक्षादानायोत्तिष्ठति तदा पिष्यमाणतिलादिसत्काः काश्चिन्नखिकाः सचित्ता अपि हस्तादौ लगिताः सम्भवन्ति, ततो भिक्षादानाय हस्तादिप्रस्फोटने भिक्षा वा ददत्या भिक्षासम्पर्कतस्तासां विराधना भवति, भिक्षां च दत्त्वा भिक्षावयवखरण्टितो हस्तौ जलेन प्रक्षालयेत् , ततः पेषणे उदकबीजसङ्घटनम् , एवं कण्डनदलनयोरपि यथायोगं भावनीयं, तथा 'भर्जने' भिक्षां ददत्यां वेलालगनेन कडिल्लक्षिप्तगोधूमादीनां दहनं स्यात, तथा पिञ्जनं रुञ्चनमादिशब्दात्कर्त्तनमर्दने च कुर्वती भिक्षां दत्त्वा भिक्षावयवखरण्टितौ हस्तौ जलेन प्रक्षालयेत् , ततस्तत्राप्युदकं विनश्यतीति न ततोऽपि भिक्षा कल्पते । सम्प्रति षट्कायव्यग्रहस्तादिपञ्चकस्वरूपं गाथाद्वयेनाह Jain Education nal For Personal & Private Use Only Amr.jainelibrary.org

Loading...

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366