________________
-
विनाशयेत्, तथाऽऽहारखरण्टितौ शुष्को हस्तौ कर्कशौ भवतः, ततो भिक्षां दत्वा पुनःच्या हस्ताभ्यां गृह्यमाणस्य बालस्य पीडा भवेत् , ततो बालवत्सातोऽपि न ग्राह्यम् । भुञ्जानां मथ्नतीं चाश्रित्य दोषानाहभुजंती आयमणे उदगं छोट्टी य लोगगरिहा य । घुसलंती संतत्ते करंमि लित्ते भवे रसगा॥ ५८७ ॥
व्याख्या-भुञ्जाना दात्री भिक्षादानार्थमाचमनं करोति, आचमने च क्रियमाणे उदकं विराध्यते, अथ न करोत्याचमनं ताई लोके छोटिरितिकृत्वा गर्दा स्यात् । तथा 'घुसुलती' दध्यादि मनती यदि तद्दध्यादि संसक्तं मनाति तर्हि तेन संसक्तदध्यादिना लिप्ते करे तस्या भिक्षां ददत्यास्तेषां रसजीवानां वधो भवति, ततस्तस्या अपि हस्तान्न कल्पते । सम्पति पेषणादि कुर्वत्या दोषानुपदर्शयति
दगबीए संघट्टण पीसणकंडदल भज्जणे डहणं । पिंजंत रंचणाई दिने लित्ते करे उदगं॥ ५८८॥
व्याख्या-पेषणकण्डनदलनानि कुर्वतीनां हस्ताद्भिक्षाग्रहणे उदकवीजसङ्घटनं स्यात्, तथाहि-पिंपन्ती यदा भिक्षादानायोत्तिष्ठति तदा पिष्यमाणतिलादिसत्काः काश्चिन्नखिकाः सचित्ता अपि हस्तादौ लगिताः सम्भवन्ति, ततो भिक्षादानाय हस्तादिप्रस्फोटने भिक्षा वा ददत्या भिक्षासम्पर्कतस्तासां विराधना भवति, भिक्षां च दत्त्वा भिक्षावयवखरण्टितो हस्तौ जलेन प्रक्षालयेत् , ततः पेषणे उदकबीजसङ्घटनम् , एवं कण्डनदलनयोरपि यथायोगं भावनीयं, तथा 'भर्जने' भिक्षां ददत्यां वेलालगनेन कडिल्लक्षिप्तगोधूमादीनां दहनं स्यात, तथा पिञ्जनं रुञ्चनमादिशब्दात्कर्त्तनमर्दने च कुर्वती भिक्षां दत्त्वा भिक्षावयवखरण्टितौ हस्तौ जलेन प्रक्षालयेत् , ततस्तत्राप्युदकं विनश्यतीति न ततोऽपि भिक्षा कल्पते । सम्प्रति षट्कायव्यग्रहस्तादिपञ्चकस्वरूपं गाथाद्वयेनाह
Jain Education
nal
For Personal & Private Use Only
Amr.jainelibrary.org