________________
पिण्डनियुकमेळयगि- रीयावृत्तिः ॥१६०॥
अमी अशुचयो यदेतस्मादप्यशुचिभूताद्भिक्षामाददतीति, एवं छिन्नकरेऽपि भिक्षां प्रयच्छति लोके जुगुप्सा, तथा हस्ताभावेन शाचकर
एषणायां णासम्भवात्, एतच्चोपलक्षणं, तेन हस्ताभावे येन कृत्वा भाजनेन भिक्षां ददाति यदा देयं वस्तु तस्य पतनमपि भवति, तथा च सति । दायकषड्जीवनिकायव्याघातः, एत एव दोषाः पादेऽपि-छिन्नपादेऽपि दातरि द्रष्टव्याः, केवलं पादाभावेन तस्य भिक्षादानाय चलतः प्रायो । दोषः ४० नियमतः 'पतनं ' पातो भवेत्, तथा च सति भूम्याश्रितकीटिकादिकसत्त्वव्याघातः । सम्पति नपुंसकमधिकृत्य दोषानाह__ आयपरोभयदोसा अभिक्खगहणंमि खोभण नपुंसे । लोगदुगुंछा संका एरिसया नूणमेएऽवि ॥ ५८५॥
व्याख्या-नपुंसके भिक्षां प्रयच्छति आत्मपरोभयदोषाः, तथाहि-नपुंसकात् अभीक्ष्णं भिक्षाग्रहणेऽतिपरिचयो भवति, अतीच परिचयाच्च तस्य नपुंसकस्य साधो क्षोभो-वेदोदयरूपः समुपजायते, ततो नपुंसकस्य साधुलिङ्गाद्यासेवनेन द्वयस्यापि मैथुनसेवया कर्मबन्धः, अभीक्षणग्रहणशब्दोपादानाच कदाचिद्भिक्षाग्रहणे दोषाभावमाह परिचयाभावात्, तथा लोके जुगुप्सा यथैते नपुंसकादपि निकृष्टाद्भिक्षामाददत इति, साधूनामध्युपरि जनस्य शङ्कन भवति-यथैतेऽपि साधवो नूनमीदृशाः-नपुंसकाः, कथमन्यथा अनेन सह भिक्षाग्रहणव्याजतोऽतिपरिचयं विदधत इति? । सम्पति गुविणीबालवत्से आश्रित्य दोषानुपदर्शयति
गुम्विणि गब्भे संघट्टणा उ उटुंतुवेसमाणीए । बालाई मंसुंडग मज्जाराई विराहेज्जा ॥ ५८६ ॥
व्याख्या-गुविण्या भिक्षादानार्थमुत्तिष्ठन्त्या भिक्षा दत्त्वा स्वस्थाने उपविशन्त्याश्च 'गर्भ' गर्भस्य ' सङ्घन' सञ्चलनं ॥१६ भवति, तस्मान्न ततो ग्राह्यं, 'बालाई मसुंडग'त्ति, अत्राऽऽर्षत्वायत्यासेन पदयोजना, 'बालमिति शिशुं भूमौ मञ्चिकादौ वा निक्षिप्य यदि भिक्षां ददाति तर्हि तं वालं 'मार्जारादि: विडालसारमेयादिः 'मांसोंदुकादि' मांसखण्डं शशकशिशुरिति वा कृत्वा 'विराधयेत् |
0000०००००००००००००००००००००००००००००र
Jain Educatiohitational
For Personal & Private Use Only
ww.jainelibrary.org