________________
क्षिपेत्, यद्वा येन स्थाल्यादिना भाजनेन कृत्वा भिक्षामानयति तस्य भूमौ निपाते भेदः - स्फोटनं स्यात्, एवमेव ज्वरितेऽपि दोषा भावनीयाः, किं च ज्वरिताग्रहणे ज्वरसङ्क्रमणमपि साधोर्भवेत्, तथा जने उड्डाहो-यथाऽहो ! अमी आहारलम्पटा यदित्थं ज्वरपी| डितादपि भिक्षां गृहन्तीति । अन्धगलत्कुष्ठावाश्रित्य दोषाना
उड्डाह काय पडणं अंधे भेओ य पास छुहणं च । तदोसी संक्रमणं गलंतभिसभिन्नदेहे य ॥ ५८३ ॥
व्याख्या—अन्धाद्भिक्षाग्रहणे उड्डाहः, स चायम् – अहो ! अमी औदरिका यदन्धादपि भिक्षां दातुमशक्नुवतो भिक्षां गृहन्तीति, तथा ‘अन्धः ' अपश्यन् पादाभ्यां भूम्याश्रितषड्जीवनिकायघातं विदधाति तथा लोष्ट्वादौ स्खलितः सन् भूमौ निपतेत्, तथा च | सति भिक्षादानायोत्पाटितहस्तगृहीतस्थास्यादिभाजनभङ्गः, तथा स देयं वस्तु पार्श्वे-भाजनवहिस्तात् प्रक्षिपेददर्शनात्, तस्मादन्धादपि न ग्राह्यम् । तथा त्वग्दोषिणि, किंविशिष्टे ? इत्याह- ' गलद्भृशभिन्नदेहे ' आर्षत्वाद्वयत्यासेन पदयोजना, सा चैत्र-' भृशम्' अतिशयेन 'गलत् ' अर्द्धपक्वं रुधिरं च बहिर्वहन् भिन्न- स्फुटितो देहो यस्य स तथा तस्मिन् दातरि ' सङ्क्रमणं' कुष्ठव्याधिसङ्क्रान्तिः स्यात्, तस्मात्ततोऽपि न ग्राह्यम् । सम्प्रति पादुकारूढादिचतुष्टयदोषानाह
पाउयदुरूढपडणं बद्धे परियाव असुइखिसा य । करछिन्नासुइ खिसा ते च्चिय पायेऽवि पडणं च ॥ ५८४ ॥
व्याख्या - पादुकारूढस्य भिक्षादानाय प्रचलतः कदाचिदुः स्थितत्वेन पतनं स्यात्, तथा बद्धे दातरि भिक्षां प्रयच्छति' परिताप: ' दुःखं तस्य भवेत्, तथा 'असुइ 'त्ति मूत्राद्युत्सर्गादौ जलेन तस्य शौचकरणासम्भवात्ततो भिक्षाग्रहणे लोके जुगुप्सा, यथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org