________________
एषणायां
पिण्डनियुतर्मलयगिरीयावृत्ति ॥१५९॥
थेरो गलंतलालो कंपणहत्थो पडिज वा देतो। अपहुत्ति य अचियत्तं एगयरे वा उभयओ वा ॥ ५८०॥
व्याख्या-अत्यन्तस्थविरो हि प्रायो गलल्लालो भवति, ततो देयमपि वस्तु लालया खरण्टितं भवतीति तद्भहणे लोके जुगुप्सा, दायकतथा कम्पपानहस्तो भवति, ततो हस्तकम्पनवशाइयं वस्तु भूमौ निपतति, तथा च षड्जीवनिकायविराधना, तथा स्वयं वा स्थविरो, दोषः ४० ददनिपतेत्, तथा च सति तस्य पीडा भूम्याश्रितषड्जीवनिकायविराधना च, अपि च प्रायः स्थविरो गृहस्याप्रभु:-अस्वामी भवति, ततस्तेन दीयमानेन प्रभुरेष इति विचिन्त्य गृहे स्वामित्वेन नियुक्तस्याचियत्तं-प्रद्वेषः स्यात्, स चैकतरस्मिन्-साधी वृद्ध वा, यद्वाउभयोरपीति । मत्तोन्मत्तावाश्रित्य दोषानाह| अवयास भाण(घाय)भेओ वमणं असुइत्ति लोगगरिहा य । एए चेव उ मत्ते वमणविवजा य उम्मत्ते ॥५८१॥
व्याख्या-मत्तः कदाचिन्मत्ततया साधोरालिङ्गानं विदधाति, तथा कोऽपि मत्तः मदवशविहलतया रे मुण्ड ! किमत्रायातः ? इति ब्रुवन् घातमपि विदधाति, भाजनं वा भिनत्ति, यद्वा कदाचित्पीतमासवं ददानो चमति, वर्मंश्च साधु साधुपात्रं वा खरण्टयति, ततो लोके जुगुप्सा, धिगमी साधवोऽशुचयो ये मत्तादपीत्थं भिक्षां गृह्णन्तीति, तत एवं यतो मत्तेऽवयासादयो दोषास्तस्मान ततो ग्राह्यम्, एत एवालिङ्गनादयो दोषा वमनवर्जा उन्मत्तेऽपि, तस्मात्ततोऽपि न ग्राह्यम् । सम्पति वेपितज्वरितावाश्रित्य दोषानाह
॥१५९॥ वेविय परिसाडणया पासे व छुभेज भाणभेओ वा । एमेव य जरियमिवि जरसंकमणं च उड्डाहो ॥ ५८२ ॥ व्याख्या-पितादातुः सकाशाद्भिक्षाग्रहणे देयवस्तुनः परिशाटनं भवति, या पाचे साधुभाजनाबहिः सर्वतोऽपि देयं वस्तु
dan Education Interation
For Personal & Private Use Only
www.jainelibrary.org