Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 322
________________ एषणायां दायकदोषः ४० पिण्डनियु- बहूनां सत्कं ददती ३४ तथा चौरितं ददति(ति) तथा चोरितं दयन्ति(न्ति) ३५ प्राभृतिकां स्थापयन्ती-अग्रकूरादिनिमित्तं मूलतेर्मळयगि-स्थाल्या आकृष्य स्थगनिकादौ मुश्चन्ती ३६ 'समत्यपाया' सम्भाव्यमानापाया दात्री ३७ तथा विवक्षितसाधुव्यतिरेकेण परमन्यं साध्वारीयावृत्तिः दिकमुद्दिश्य यत्स्थापितं तद्ददती, ३८ तथा 'आभोगेन' साधूनामित्थं न कल्पत इति परिज्ञानेऽप्युपेत्याशुद्धं ददती ३९ अथवाऽनाभो- गेनाशुद्धं ददती ४० सर्वसङ्ख्यया चत्वारिंशदोषाः । इह म्रक्षितादिद्वारेषु 'संसज्जिमेहिं वजं अगरहिएहिपि गोरसदवेहिं ' इत्यादिना ॥१५८॥ ग्रन्थेन संसक्तादिदोषाणामभिधानेऽपि यद्योऽप्यत्र 'संसत्तेण य दवेण लित्तहत्था य लित्तमत्ता य' इत्याद्यभिधानं तदशेषदायकदोपाणामेकत्रोपदर्शनार्थमित्यदोषः । सम्प्रत्येतेषामेव दायकानामपवादमधिकृत्य वर्जनावर्जनविभागमाह एएसि दायगाणं गहणं केसिंचि होइ भइयव्वं । केसिंची अग्गहणं तबिवरीए भवे गहणं ॥ ५७८ ॥ व्याख्या-'एतेषां ' बालादीनां दायकानां मध्ये केषाश्चिन्मूलत आरभ्य पञ्चविंशतिसङ्ख्यानां ग्रहणं भजनीयं, कदाचित्तथाविधं महत्प्रयोजनमुद्दिश्य कल्पते, शेषकालं नति, तथा केषाश्चित् षट्कायव्यग्रहस्तादीनां पञ्चदशानां हस्तादग्रहणं भिनायाः, तद्विपरीते तु ' बालादिविपरीते तु दातरि भवेद्हणं । सम्पति बालादीनां हस्ताद्भिक्षाग्रहणे ये दोषाः सम्भवन्ति ते दर्शनीयाः, तत्र प्रथमतो बालमधिकृत्य दोषानाह कब्बढिग अप्पाहण दिन्ने अन्नन्न गहण पज्जत् । खंतिय मग्गणदिन्ने उड्डाह पओस चारभडा ॥ ५७९॥ व्याख्या-काचिदभिनवा श्राद्धिका श्रमणेभ्यो भिक्षां दद्या इति निजपुत्रिकाम् 'अप्पाहिऊणं' ति सन्दिश्य भक्त गृहीत्वा क्षेत्रं जगाम, गतायां तस्यां कोऽपि साधुसवाटको भिक्षार्थमागतः, तया च बालिकया तस्मै तण्डुलौदनो वितीर्णः, सोऽपि च सडनाटकमुख्यः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366