________________
एषणायां दायकदोषः ४०
पिण्डनियु- बहूनां सत्कं ददती ३४ तथा चौरितं ददति(ति) तथा चोरितं दयन्ति(न्ति) ३५ प्राभृतिकां स्थापयन्ती-अग्रकूरादिनिमित्तं मूलतेर्मळयगि-स्थाल्या आकृष्य स्थगनिकादौ मुश्चन्ती ३६ 'समत्यपाया' सम्भाव्यमानापाया दात्री ३७ तथा विवक्षितसाधुव्यतिरेकेण परमन्यं साध्वारीयावृत्तिः दिकमुद्दिश्य यत्स्थापितं तद्ददती, ३८ तथा 'आभोगेन' साधूनामित्थं न कल्पत इति परिज्ञानेऽप्युपेत्याशुद्धं ददती ३९ अथवाऽनाभो-
गेनाशुद्धं ददती ४० सर्वसङ्ख्यया चत्वारिंशदोषाः । इह म्रक्षितादिद्वारेषु 'संसज्जिमेहिं वजं अगरहिएहिपि गोरसदवेहिं ' इत्यादिना ॥१५८॥
ग्रन्थेन संसक्तादिदोषाणामभिधानेऽपि यद्योऽप्यत्र 'संसत्तेण य दवेण लित्तहत्था य लित्तमत्ता य' इत्याद्यभिधानं तदशेषदायकदोपाणामेकत्रोपदर्शनार्थमित्यदोषः । सम्प्रत्येतेषामेव दायकानामपवादमधिकृत्य वर्जनावर्जनविभागमाह
एएसि दायगाणं गहणं केसिंचि होइ भइयव्वं । केसिंची अग्गहणं तबिवरीए भवे गहणं ॥ ५७८ ॥
व्याख्या-'एतेषां ' बालादीनां दायकानां मध्ये केषाश्चिन्मूलत आरभ्य पञ्चविंशतिसङ्ख्यानां ग्रहणं भजनीयं, कदाचित्तथाविधं महत्प्रयोजनमुद्दिश्य कल्पते, शेषकालं नति, तथा केषाश्चित् षट्कायव्यग्रहस्तादीनां पञ्चदशानां हस्तादग्रहणं भिनायाः, तद्विपरीते तु ' बालादिविपरीते तु दातरि भवेद्हणं । सम्पति बालादीनां हस्ताद्भिक्षाग्रहणे ये दोषाः सम्भवन्ति ते दर्शनीयाः, तत्र प्रथमतो बालमधिकृत्य दोषानाह
कब्बढिग अप्पाहण दिन्ने अन्नन्न गहण पज्जत् । खंतिय मग्गणदिन्ने उड्डाह पओस चारभडा ॥ ५७९॥
व्याख्या-काचिदभिनवा श्राद्धिका श्रमणेभ्यो भिक्षां दद्या इति निजपुत्रिकाम् 'अप्पाहिऊणं' ति सन्दिश्य भक्त गृहीत्वा क्षेत्रं जगाम, गतायां तस्यां कोऽपि साधुसवाटको भिक्षार्थमागतः, तया च बालिकया तस्मै तण्डुलौदनो वितीर्णः, सोऽपि च सडनाटकमुख्यः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org