Book Title: Pind Niryukti
Author(s): Abhaydevsuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 323
________________ ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ साधुस्तां बालिकां मुग्धतरामवगत्य लाम्पटयतो भूयो भूय उवाच-पुनर्देहि पुनर्देहीति, ततस्तया समस्तोऽप्योदनो दत्तः, तत एवमेवं मुद्घृततक्रदध्यादिकमपि, अपराहे च समागता जननी, उपविष्टा भोजनाय, भणिता च निजपुत्रिका-देहि पुत्रि! मह्यमोदनमिति, साऽवोचत्-दत्तः समस्तोऽप्योदनः साघवे, साऽब्रवीत–शोभनं कृतवती, मुगान् मे देहि, सा पाह-मुद्रा अपि साधवे सर्वे प्रदत्ताः एवं च यद्यत् किमपि सा याचते तत्सर्व साधवे दत्तमिति ब्रवीति, ततः पर्यन्ते काञ्जिकमात्रमयाचत, तदपि बालिका भणति-साधवे दत्तमिति, ततः साऽभिनवश्राद्धिका रुष्टा सती पुत्रिकामेवमपवदति-किमिति त्वया सर्व साधवे प्रदत्तं?, सा ब्रूते-स साधुर्भूयो भूयोऽयाचत ततो मया सर्वमदायि, ततः सा साधोरुपरि कोपावेशमाविशन्ती सूरीणामन्तिकमगमत, अचकथच सकलमपि साधुवृत्तान्तं, यथा भवदीयः साधुरित्थमित्थं मत्पुत्रिकायाः सकाशाद्याचित्वा याचित्वा सर्वमोदनादिकमानीतवानिति, एवं तस्यां महता शब्देन कथयन्त्यां शब्दश्रवणतः प्रातिवेश्मिकजनोऽन्योऽपि च परम्परया भूयान्मिलितो ज्ञातश्च सर्वैरपि साधुवृत्तान्तः, ततो विदधति तेऽपि कोपावेशतः साधूनामवर्णवाद-नूनममी साधुवेषविडम्बिनश्चारभटा इव लुण्टाका न साधुसद्वत्ता इति, ततः प्रवचनावर्णवादापनोदाय सूरिभिस्तस्याः सर्वजनस्य च समक्षं स साधुनिर्भत्स्योपकरणं च सकलमागृह्य वसतेनिष्काशितः, तत एवं तस्मिन्निष्काशिते श्राविकायाः कोपः शममगमत्, ततः सूरीणां क्षमाश्रमणमादायोक्तवती-भगवन् ! मा मन्निमित्तमेष निष्काश्यता, क्षमस्वैकं ममापराधमिति, ततो | भूयोऽपि यथावत्साधुः शिक्षित्वा प्रवेशितः । सूत्रं सुगम । नवरम् ‘उड्डाह पओस चारभडा' इति, लोके उड्डाहः ततो लोकस्य प्रद्वेषभावतश्चारभटा इव लुण्टाका अमी न साधव इत्यवर्णवादः। यत एवं बालाद्भिक्षाग्रहणे दोषास्ततो बालान्न ग्राह्यमिति । सम्पति स्थविरदायकदोपानाह ,99999999白99999999999999999999999 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366