Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
ते च चत्वारो भङ्गा अमी, तद्यथा-हस्तो प्रतितो मात्रं च, हस्तो म्रक्षितो न मात्र, मात्र प्रक्षितं न हस्तः, नापि मात्र नापि हस्तः तत्राऽऽदिमे भङ्गत्रिके प्रतिषेधो, न कल्पते ग्रहीतुमिति भावः, चरमे भङ्गे पुनरनुज्ञातो यतिस्तीर्थकरगणधरैः, तत्र दोषाभावात् । अचित्तम्रक्षितमाश्रित्य कल्प्याकल्प्यविधिमाह
अच्चित्तमक्खियंमि उ चउसुवि भंगेसु होइ भयणा उ। अगरहिएण उ गहणं पडिसेहो गरहिए होइ ॥५३७॥
व्याख्या-अचित्तम्रक्षितेऽपि हस्तमात्रे अधिकृत्य प्राग्वच्चत्वारो भङ्गाः, तत्र च चतुर्वपि भङ्गेषु 'भजना' विकल्पना, तामेवाह|| अहितेन ' लोकानिन्दितेन घृतादिना म्रक्षिते ग्रहणं, गर्हितेन तु वसादिना म्रक्षिते भवति प्रतिषेधः, तत्रापि चतुर्थो भङ्गः शुद्ध एवेति | ग्रहणम् । अगर्हितम्रक्षितमप्यधिकृत्य विशेषमाहसंसज्जिमेहिं वजं अगरहिएहिपि गोरसदवेहिं । महुघयतेल्लगुलेहि य मा मच्छिपिपीलियाघाओ ॥ ५३८॥
व्याख्या-संसक्तिमद्भयां तन्मध्यनिपतितजीवयुक्ताभ्यां 'गोरसद्वाभ्यां ' दध्यादिपानकाभ्यामगर्हिताभ्यामपि म्रक्षितं म्रक्षिता. भ्यां हस्तमात्राभ्यां वा दीयमानं 'वयं' परिहार्य, न ग्रहीतव्यमित्यर्थः, तथा मधुघृततैलद्रवगुडैरगर्हितैरपि म्रक्षितं म्रक्षिताभ्यां वा इस्तमात्राभ्यां दीयमानं वय, कुत इत्याह-'मा मच्छिपिपीलियाघाओ' मा मक्षिकापिपीलिकानाम् , उपलक्षणमेतत् , पतङ्गादीनां
वातादिवशतो लग्नानां घातो-विनाशो भूदितिकृत्वा, एतच्चोत्कृष्टानुष्ठानं जिनकल्पिकाद्यधिकृत्योक्तमवसेयं, स्थविरकल्पिकास्तु यथाविधि भयतनया घृताद्यपि गुडादिम्रक्षितमशोकवाद्यपि च गृहन्ति । सम्पति गहिंतागर्हितविशेषमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366