Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पिण्ड तेर्मलयगि
रीयावृत्तिः
॥१५३॥
वा घट्टयेते तद्दीयमानं कल्पते, तत इत्याह-' घट्टियपडणंमि मा अग्गी' उदचनेन प्रविशता निर्गच्छता वा पिठरस्य कर्णयोर्घयमानयोर्लेपस्योदकस्य वा पतनेन माऽग्निर्विराध्यतेति कृत्वा, एतेन च वक्ष्यमाणषोडशभङ्गानामाद्यो भङ्गो दर्शितः । सम्प्रति तानेव पोडश भ ङ्गान् दर्शयति
पासोलित्त कडाहेऽनच्चुसिणे अपरिसाडऽघट्टंते । सोलसभंगविगप्पा पढमेऽणुन्ना न सेसेसु ॥ ५५४ ॥
व्याख्या – पार्श्ववलिप्तः कटाहः, अनत्युष्णो दीयमान इक्षुरसादिः, अपरिशाटिः परिशाट्यभावः, 'अहंते' इति उदञ्चनेन पिठरकर्णाघट्टने, इत्यमूनि चत्वारि पदान्यधिकृत्य षोडश भङ्गा भवन्ति । भङ्गानां चानयनार्थमियं गाथा
पयसमदुगअब्भासे माणं भंगाण तेसिमा रयणा । एगंतरियं लहुगुरु दुगुणा दुगुणा य वामेसु ॥ ५५५ ॥
अस्या व्याख्या - इह यावतां पदानां भङ्गा आनेतुमिष्यन्ते तावन्तो द्विका ऊर्ध्वाधः क्रमेण स्थाप्यन्ते, ततस्तेषामभ्यासे सति यदन्ति द्विके समागच्छति तद्भङ्गानां 'मानं ' प्रमाणं, तथाहि - इह चतुर्णां पदानां भङ्गा आनेतुमिष्टास्ततञ्चत्वारो द्विका ऊर्ध्वाधःक्रमेण स्थाप्यन्ते, ततः प्रथमो द्विको द्वितीयेन द्विकेन गुण्यते, जाताश्चत्वारः, तैस्तृतीयो द्विको गुण्यते जाता अष्टौ, तैरपि चतुर्थो द्विको गुण्यते, जाताः षोडश, एतावन्तश्चतुर्णी पदानां भङ्गा भवन्ति तेषां च पुनर्भङ्गानामेषा रचना, प्रथमपङ्कावेकान्तरितं लघुगुरु, प्रथमं लघु ततो गुरु, पुनर्लघु पुनर्गुरु, एवं यावत् षोडशो भङ्गः ततः प्रज्ञापकापेक्षया 'वामेषु ' वामपार्श्वेषु द्विगुणद्विगुणा लघुगुरवः, तद्यथा - द्वितीयपङ्कौ प्रथमं द्वौ लघू ततो द्वौ गुरू ततो भूयोऽपि द्वौ लघू एवं यावत्षोडशो भङ्गः तृतीयपङ्कौ प्रथमं चत्वारो लघवः, ततश्चत्वारो गुरवः,
Jain Education International
For Personal & Private Use Only
एषणायां निक्षिप्त
दोषः
॥१५३॥
www.jainelibrary.org

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366