SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ पिण्ड तेर्मलयगि रीयावृत्तिः ॥१५३॥ वा घट्टयेते तद्दीयमानं कल्पते, तत इत्याह-' घट्टियपडणंमि मा अग्गी' उदचनेन प्रविशता निर्गच्छता वा पिठरस्य कर्णयोर्घयमानयोर्लेपस्योदकस्य वा पतनेन माऽग्निर्विराध्यतेति कृत्वा, एतेन च वक्ष्यमाणषोडशभङ्गानामाद्यो भङ्गो दर्शितः । सम्प्रति तानेव पोडश भ ङ्गान् दर्शयति पासोलित्त कडाहेऽनच्चुसिणे अपरिसाडऽघट्टंते । सोलसभंगविगप्पा पढमेऽणुन्ना न सेसेसु ॥ ५५४ ॥ व्याख्या – पार्श्ववलिप्तः कटाहः, अनत्युष्णो दीयमान इक्षुरसादिः, अपरिशाटिः परिशाट्यभावः, 'अहंते' इति उदञ्चनेन पिठरकर्णाघट्टने, इत्यमूनि चत्वारि पदान्यधिकृत्य षोडश भङ्गा भवन्ति । भङ्गानां चानयनार्थमियं गाथा पयसमदुगअब्भासे माणं भंगाण तेसिमा रयणा । एगंतरियं लहुगुरु दुगुणा दुगुणा य वामेसु ॥ ५५५ ॥ अस्या व्याख्या - इह यावतां पदानां भङ्गा आनेतुमिष्यन्ते तावन्तो द्विका ऊर्ध्वाधः क्रमेण स्थाप्यन्ते, ततस्तेषामभ्यासे सति यदन्ति द्विके समागच्छति तद्भङ्गानां 'मानं ' प्रमाणं, तथाहि - इह चतुर्णां पदानां भङ्गा आनेतुमिष्टास्ततञ्चत्वारो द्विका ऊर्ध्वाधःक्रमेण स्थाप्यन्ते, ततः प्रथमो द्विको द्वितीयेन द्विकेन गुण्यते, जाताश्चत्वारः, तैस्तृतीयो द्विको गुण्यते जाता अष्टौ, तैरपि चतुर्थो द्विको गुण्यते, जाताः षोडश, एतावन्तश्चतुर्णी पदानां भङ्गा भवन्ति तेषां च पुनर्भङ्गानामेषा रचना, प्रथमपङ्कावेकान्तरितं लघुगुरु, प्रथमं लघु ततो गुरु, पुनर्लघु पुनर्गुरु, एवं यावत् षोडशो भङ्गः ततः प्रज्ञापकापेक्षया 'वामेषु ' वामपार्श्वेषु द्विगुणद्विगुणा लघुगुरवः, तद्यथा - द्वितीयपङ्कौ प्रथमं द्वौ लघू ततो द्वौ गुरू ततो भूयोऽपि द्वौ लघू एवं यावत्षोडशो भङ्गः तृतीयपङ्कौ प्रथमं चत्वारो लघवः, ततश्चत्वारो गुरवः, Jain Education International For Personal & Private Use Only एषणायां निक्षिप्त दोषः ॥१५३॥ www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy