SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ व्याख्या-मुगमं । नवरम् 'अप्पचा उ चउत्थे जाला' इति चतुर्थेऽभाप्ताख्ये भेदे पिठरमप्राप्ता ज्वाला द्रष्टव्या, एवमन्यत्राप्यक्षरगमनिका कार्या । सम्पति 'जंतोलित्ते य जयणाए' इत्यवयवं व्याचिख्यासुराह___ पासोलित्त कडाहे परिसाडी नत्थि तंपि य विसालं । सोवि य अचिरच्छूढो उच्छुरसो नाइउसिणो य ॥५५२॥ व्याख्या-इह यदीति सर्वत्राध्याहियते, यदि कटाहः-पिठरविशेषः सर्वतः पार्थेषु मृत्तिकयाऽवलिप्सो भवति दीयमाने चेक्षुरसे यदि परिशाटिनोपजायते तदपि च कटाहरूपं भाजनं यदि 'विशालं' विशालमुखं भवति, सोऽपि चेक्षुरसोऽचिरक्षिप्त इतिकृत्वा यदि नात्युष्णो भवति तदा स दीयमान इक्षुरसः कल्पते, इह यदि दीयमानस्येक्षुरसस्य कथमपि बिन्दुबहिः पतति तहि स लेप एवावर्त्तते, न तु चुल्लीमध्यस्थिततेजस्कायमध्ये पतति ततः पार्थावलिप्त इति कटाहस्य विशेषणमुक्तं, तथा विशालमुखादाकृष्यमाण उदश्चनः पिठरस्य कर्णे न लगति ततो न पिठरस्य भङ्ग इति न तेजःकायविराधनेति विशालग्रहणम् , अनत्युषणग्रहणे तु कारणं स्वयमेव वक्ष्यति । सम्मत्युदकमधिकृत्य विशेषमाह। उसिणोदगंपि घेप्पइ गुडरसपरिणामियं अणच्चुसिणं । जं च अघट्टियकन्नं घट्टियपडणमि मा अग्गी ॥ ५५३ ॥ ___ व्याख्या-उष्णोदकमपि गुडरसपरिणामितमनत्युष्णं गृह्यते, किमुक्तं भवति ?-यत्र कटाहे गुडः पूर्व कथितो भवति, तस्मिन्नि-1 क्षिप्तं जलमीपत्तप्तमपि कटाहसंसक्तगुडरसमिश्रणात् सत्वरमचित्तीभवति, ततस्तदनत्युष्णमपि कल्पते, अत्रापि पार्थावलिप्तकटाहस्थितमपरिशाटिमञ्चेति विशेषणद्वयमनुपात्तमपि द्रष्टव्यं, तथा 'यदघटितकर्ण'न यस्मिन् दीयमाने पिठरस्य कर्णावुदश्चनेन मविशता निर्गच्छता Jain Educationa l For Personal & Private Use Only ww.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy