________________
ततः पुनरधश्चत्वारो लघवस्ततश्चत्वारो गुरवः, चतुर्थपतयां प्रथममष्टौ लघवस्ततोऽष्टौ गुरवः । स्थापना चेयं-10 0ss
॥ 15S Iss| Isss smsssssssssss sss ssss अत्र ऋजवः अंशाः शुद्धा वक्राश्चाशुद्धाः, इह पोडशानां भङ्गानामाद्ये भङ्गेऽनुज्ञा, न शेषेषु पञ्चदशसु भङ्गेषु । सम्पत्यत्युष्णग्रहणे दोषानाह
दुविहविराहण उसिणे छड्डुण हाणी य भाणभेओ य ।। ___ व्याख्या-'उष्णे' अत्युष्णे इक्षुरसादौ दीयमाने द्विधा विराधना, आत्मविराधना परविराधना च, तथाहि-यस्मिन् भाजने तदत्युष्णं गृह्णाति तेन तप्तं सद्भाजनं हस्तेन साधुन् दह्यते इत्यात्मविराधना । येनापि स्थापितेन स्थानेन सा दात्री ददाति तेनाप्यत्युष्णेन सा दह्यत इति । तथा 'छड्डणे हाणी य'त्ति अत्युष्णमिक्षुरसादि कष्टेन दात्री दातुं शक्रोति, कष्टेन च दाने कथमपि साधुसत्कभाजनादहिरुज्झने हानिर्दीयमानस्येक्षुरसादेः, तथा 'भाणभेओ' इति तस्य भाजनस्य साधुना वसतावानयनायोत्पाटितस्य पतद्भहादेर्दाच्या वा दानायोत्पाटितस्योदश्चनस्य गण्डरहितस्यात्युष्णतया झगिति भूमौ मोचने भङ्गः स्यात्, तथा च षड्जीवनिकायविराधनेति संयमविराधना । सम्पति वातकायमधिकृत्यानन्तरपरम्परे दर्शयति
वाउक्खित्ताणंतरपरंपरा पप्पडिय वत्थी॥ ५५६ ॥ व्याख्या—'वातोत्क्षिप्ताः' समीरणोत्पाटिताः 'पर्पटिकाः' शालिपपेटिका अनन्तरनिक्षित, परम्मरनिक्षितं 'वत्थि त्ति विभतिलोपादस्तो, उपलक्षणमेतत् , समीरणापूरितबस्तिदृतिप्रभृतिव्यवस्थितं मण्डकादि । सम्पति वनस्पतित्रसविषयं द्विवियमपि निक्षितमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org