________________
पिण्डनियुकर्मळयगि
एषणाय पिहित
दोषः
हरियाइअणंतरिया परंपरं पिढरगाइसु वर्णमि । पूपाइ पिट्ठणंतर भरए कुउबाइसू इयरा ॥ ५५७ ॥
व्याख्या-'वने' वनस्पतिविषये 'अनन्तरनिक्षिप्तं' हरितादिषु सचित्तव्रीहिकाप्रभृतिषु अनन्तरिता निक्षिप्ता अपूपादय इति शेषः, हरितादीनामेवोपरि स्थितेषु पिठरादिषु निक्षिप्ता अपूपादयः परम्परनिक्षिप्तं, तथा बलीव दीनां पृष्ठेऽनन्तरनिक्षिप्ता अपूपादयस्वसेवनन्तरनिक्षिप्तं, बलीवादिपृष्ठ एव भरके कुतुपादिषु वा भाजनेषु निक्षिप्ता मोदकादयः परम्परनिक्षिप्तम् । इह सर्वत्रानन्तरनिक्षिप्तं न ग्राह्यं, सचित्तसङ्घटनादिदोषसम्भवात् , परम्परनिक्षिप्तं तु सचित्तसङ्घटनादिपरिहारेण यतनया ग्राह्यमिति सम्पदायः । उक्तं निक्षिप्तद्वारम्, अथ पिहितद्वारमाह___ सच्चित्ते अच्चित्ते मीसग पिहियमि होइ चउभंगो । आइतिगे पडिसेहो चरिमे भंगंमि भयणा उ ॥ ५५८ ॥
व्याख्या-इह 'सचित्ते' इत्यादौ सप्तमी तृतीयार्थे, ततोऽयमर्थः-सचित्तेनाचित्वेन मिश्रेण वा पिहिते चतुर्भङ्गी भवति, अत्र जातावेकवचनं, तेन तिस्रश्चतुर्भङ्गयो भवन्तीति द्रष्टव्यं, तत्रैका सचित्तमिश्रपदाभ्यां, द्वितीया सचित्ताचित्तपदाभ्यां, तृतीया मिश्राचित्तपदाभ्यां, तत्र सचित्तेन सचित्तं पिहितं, मिश्रेण सचित्तं, सचित्तेन मिश्र, मिश्रेण मिश्रमिति प्रथमा चतुर्भङ्गी, तथा सचित्तेन सचित्तं पिहितम्, अचित्चेन सचित्तं, सचित्तेनाचित्तम्, अचित्तेनाचित्तामति द्वितीया चतुर्भङ्गी, तथा मिश्रेण मिश्रं पिहितं, मिश्रेणाचित्तम् ,
म् अचित्तेन मिश्रम् , अचित्तेनाचित्तमिति तृतीया । तत्र गाथापर्यन्ततुशब्दवचनात् प्रथमचतुर्भङ्गयां सर्वेष्वपि भङ्गेषु न कल्पते, द्वितीयतृतीयचतुर्भङ्गिकयोस्तु प्रत्येकमादिमेषु २ त्रिषु भङ्गेषु न कल्पते इत्यर्थः, चरमे तु भङ्गे भजना, सा च 'गुरुगुरुणे 'त्यादिना स्वयमेव | वक्ष्यति । सम्पति चतुर्भङ्गीत्रयविषयावान्तरभङ्गकथनेऽतिदेशमाह
०००००००००००००००००००००००००००००००००
साच सचित्तनाचित्तम्, अचित्तेनायतशब्दवचनात् प्रथमचतुर्भमा, सा च 'गुरुगुरुणे त्या।
॥१५॥
Jain Education
Monal
For Personal & Private Use Only
ww.jainelibrary.org