SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ जह चेव उ निक्खित्ते संजोगा चेव होंति भंगा य । एमेव य पिहियमिवि नाणत्तमिणं तइयभंगे॥ ५५९॥ । व्याख्या-यथैव 'निक्षिप्त' इति निक्षिप्तद्वारे सचित्ताचित्तमिश्राणां संयोगाः प्रागुक्ताः यथैव च सचित्तपृथिवीकायः सचित्तपृथिवीकायस्योपरि निक्षिप्त इत्येवं स्वस्थानपरस्थानापेक्षया चतुर्भङ्गीत्रयभङ्गेष्वेकैकस्मिन् भने षट्त्रिंशत् षट्त्रिंशद्भेदा उक्ताः, सर्वसङ्ख्यया चत्वारि । शतानि द्वात्रिंशदधिकानि, तथाऽत्रापि पिहितद्वारे द्रष्टव्याः, तथाहि-मागिवात्रापि चतुर्भङ्गीत्रयम् , एकैकस्मिंश्च भङ्गे सचित्तः पृथिवीकायः सचित्तपृथिवीकायेन पिहित इत्यादिरूपतया स्वस्थानपरस्थाने अधिकृत्य षट्त्रिंशत् षट्त्रिंशद्भेदाः, सर्वसङ्खथया ( शतानि ) चत्वारि द्वात्रिंशदधिकानि भङ्गानां । नवरं द्वितीयतृतीयचतुर्भङ्गयोः प्रत्येकं तृतीये भङ्गेऽनन्तरपरम्परमार्गणविधौ निक्षिप्तद्वारादिदं वक्ष्यमाणं नानात्वमवसेयं, निक्षिप्तेऽन्येन प्रकारेणानन्तरपरम्परमार्गणा कृता अत्र त्वन्येन प्रकारेण करिष्यते इति भावः । तत्र सचित्तपृथिवीकायेनावष्टब्धं मण्डकादि सचित्तपृथिवीकायानन्तरपिहितं, सचित्तपृथिवीकायगर्भपिठरादिपिहितं सचित्तपृथिवीकायपरम्परपिहितं, तथा हिमादिनाऽवष्टब्धं मोदकादि सचित्ताप्कायानन्तरपिहितं हिमादिगर्भपिठरादिना पिहितं सचित्ताप्कायपरम्परपिहितं । सचित्ततेजस्कायादिपिहितमनन्तरं परम्परं च गाथाद्वयेनाह अंगारधूवियाई अणंतरो संतरो सरावाई। तत्थेव अइर वाऊ परंपरं बत्थिणा पिहिए ॥ ५६० ॥ अरं फलाइपिहितं वर्णमि इयरं तु छब्बपिठराई । कच्छवसंचाराई अणंतराणंतरे छठे ॥ ५६१ ॥ व्याख्या-इह यदा स्थाल्यादौ संस्वेदिमादीनां मध्येऽङ्गारं स्थापयित्वा हिङ्ग्वादिना वासो दीयते तदा तेनाङ्गारेण केषाश्चि dan Education M onal For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy