Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
व्याख्या-मुगमं । नवरम् 'अप्पचा उ चउत्थे जाला' इति चतुर्थेऽभाप्ताख्ये भेदे पिठरमप्राप्ता ज्वाला द्रष्टव्या, एवमन्यत्राप्यक्षरगमनिका कार्या । सम्पति 'जंतोलित्ते य जयणाए' इत्यवयवं व्याचिख्यासुराह___ पासोलित्त कडाहे परिसाडी नत्थि तंपि य विसालं । सोवि य अचिरच्छूढो उच्छुरसो नाइउसिणो य ॥५५२॥
व्याख्या-इह यदीति सर्वत्राध्याहियते, यदि कटाहः-पिठरविशेषः सर्वतः पार्थेषु मृत्तिकयाऽवलिप्सो भवति दीयमाने चेक्षुरसे यदि परिशाटिनोपजायते तदपि च कटाहरूपं भाजनं यदि 'विशालं' विशालमुखं भवति, सोऽपि चेक्षुरसोऽचिरक्षिप्त इतिकृत्वा यदि नात्युष्णो भवति तदा स दीयमान इक्षुरसः कल्पते, इह यदि दीयमानस्येक्षुरसस्य कथमपि बिन्दुबहिः पतति तहि स लेप एवावर्त्तते, न तु चुल्लीमध्यस्थिततेजस्कायमध्ये पतति ततः पार्थावलिप्त इति कटाहस्य विशेषणमुक्तं, तथा विशालमुखादाकृष्यमाण उदश्चनः पिठरस्य कर्णे न लगति ततो न पिठरस्य भङ्ग इति न तेजःकायविराधनेति विशालग्रहणम् , अनत्युषणग्रहणे तु कारणं स्वयमेव वक्ष्यति । सम्मत्युदकमधिकृत्य विशेषमाह। उसिणोदगंपि घेप्पइ गुडरसपरिणामियं अणच्चुसिणं । जं च अघट्टियकन्नं घट्टियपडणमि मा अग्गी ॥ ५५३ ॥ ___ व्याख्या-उष्णोदकमपि गुडरसपरिणामितमनत्युष्णं गृह्यते, किमुक्तं भवति ?-यत्र कटाहे गुडः पूर्व कथितो भवति, तस्मिन्नि-1 क्षिप्तं जलमीपत्तप्तमपि कटाहसंसक्तगुडरसमिश्रणात् सत्वरमचित्तीभवति, ततस्तदनत्युष्णमपि कल्पते, अत्रापि पार्थावलिप्तकटाहस्थितमपरिशाटिमञ्चेति विशेषणद्वयमनुपात्तमपि द्रष्टव्यं, तथा 'यदघटितकर्ण'न यस्मिन् दीयमाने पिठरस्य कर्णावुदश्चनेन मविशता निर्गच्छता
Jain Educationa l
For Personal & Private Use Only
ww.jainelibrary.org

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366