Book Title: Pind Niryukti
Author(s): Abhaydevsuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
पिण्डनियु- नानात्वमवसेयं, निक्षिप्तद्वारेऽन्येन प्रकारेणानन्तरपरम्परमार्गणा कृता अत्र तु संहृतद्वारेऽन्यथा करिष्यते इति भावः । तदेवान्यथात्वं | एषणाया तर्मलयगि- दर्शयन् संहरणलक्षणमाह
संहृतरीयावृत्तिः । मत्तेण जेण दाहिइ तत्थ अदिजं तु होज्ज असणाई । छोटु तयन्नहिं तेणं देई अह होइ साहरणं ॥५६५॥ दोषः ॥१५६॥
| व्याख्या-येन मात्रकेण दास्यति दात्री तत्रादेयं किमप्यस्ति 'अशनादिकं' भक्तादि सचित्तपृथिवीकायादिकं वा, ततस्तत 'अदेयम् ' अन्यत्र स्थानान्तरे क्षिप्त्वा ददाति 'अह 'त्ति एतत्संहरणं, तत एतल्लक्षणानुसारेणानन्तरपरम्परमार्गणा अनुसरणीया, तद्यथासचित्तपृथिवीकायमध्ये यदा संहरति तदाऽनन्तरसचित्तपृथिवीकायसंहृतं, यदा तु सचित्तपृथिवीकायस्योपरि स्थिते पिठरादौ सहरति तदा परम्परया सचित्तपृथिवीकाये सहृतम् । एवमप्कायादिष्वपि भावनीयम् । अनन्तरसंहृते न ग्राह्यं, परम्परासंहृते सचित्तपृथिवीकायाद्यघट्टने
ग्राह्यमिति । सम्पति द्वितीयतृतीयचतुर्भङ्गीसकं तृतीयं तृतीयं भङ्गमाश्रित्य येषु वस्तुषु मात्रकस्थितमदेयं वस्तु संहरति तान्युपदर्शयतिMall भूमाइएस तं पुण साहरणं होइ छसुवि काएसु । जं तं दुहा अचित्तं साहरणं तत्थ चउभंगो ॥ ५६६ ॥
व्याख्या-तत्पुनर्मात्रकस्थितस्यादेयस्य वस्तुनः संहरणम् 'भूम्यादिकेषु' सचित्तपृथिवीकायादिषु षट्सु जीवनिकायेषु 'भवति' जायते, तत्र चानन्तरोक्तमनन्तरपरम्परामार्गणमवधार्यम्, अनन्तरोक्त एव च कल्प्याकल्प्यविधिरवधारणीयः, तथा यत्संहरणं द्विधाऽपि||||॥१५६॥ आधारापेक्षया संहियमाणापेक्षया च अचित्तमचित्ते यत्संहियते इत्यर्थः, तत्र 'चतुर्भङ्गी' चत्वारो भङ्गाः । तानेवाह
सुक्के सुकं पढमो सुके उल्लं तु बिइयओ भंगो । उल्ले सुकं तइओ उल्ले उल्लं चउत्थो उ ॥ ५६७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366