SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ते च चत्वारो भङ्गा अमी, तद्यथा-हस्तो प्रतितो मात्रं च, हस्तो म्रक्षितो न मात्र, मात्र प्रक्षितं न हस्तः, नापि मात्र नापि हस्तः तत्राऽऽदिमे भङ्गत्रिके प्रतिषेधो, न कल्पते ग्रहीतुमिति भावः, चरमे भङ्गे पुनरनुज्ञातो यतिस्तीर्थकरगणधरैः, तत्र दोषाभावात् । अचित्तम्रक्षितमाश्रित्य कल्प्याकल्प्यविधिमाह अच्चित्तमक्खियंमि उ चउसुवि भंगेसु होइ भयणा उ। अगरहिएण उ गहणं पडिसेहो गरहिए होइ ॥५३७॥ व्याख्या-अचित्तम्रक्षितेऽपि हस्तमात्रे अधिकृत्य प्राग्वच्चत्वारो भङ्गाः, तत्र च चतुर्वपि भङ्गेषु 'भजना' विकल्पना, तामेवाह|| अहितेन ' लोकानिन्दितेन घृतादिना म्रक्षिते ग्रहणं, गर्हितेन तु वसादिना म्रक्षिते भवति प्रतिषेधः, तत्रापि चतुर्थो भङ्गः शुद्ध एवेति | ग्रहणम् । अगर्हितम्रक्षितमप्यधिकृत्य विशेषमाहसंसज्जिमेहिं वजं अगरहिएहिपि गोरसदवेहिं । महुघयतेल्लगुलेहि य मा मच्छिपिपीलियाघाओ ॥ ५३८॥ व्याख्या-संसक्तिमद्भयां तन्मध्यनिपतितजीवयुक्ताभ्यां 'गोरसद्वाभ्यां ' दध्यादिपानकाभ्यामगर्हिताभ्यामपि म्रक्षितं म्रक्षिता. भ्यां हस्तमात्राभ्यां वा दीयमानं 'वयं' परिहार्य, न ग्रहीतव्यमित्यर्थः, तथा मधुघृततैलद्रवगुडैरगर्हितैरपि म्रक्षितं म्रक्षिताभ्यां वा इस्तमात्राभ्यां दीयमानं वय, कुत इत्याह-'मा मच्छिपिपीलियाघाओ' मा मक्षिकापिपीलिकानाम् , उपलक्षणमेतत् , पतङ्गादीनां वातादिवशतो लग्नानां घातो-विनाशो भूदितिकृत्वा, एतच्चोत्कृष्टानुष्ठानं जिनकल्पिकाद्यधिकृत्योक्तमवसेयं, स्थविरकल्पिकास्तु यथाविधि भयतनया घृताद्यपि गुडादिम्रक्षितमशोकवाद्यपि च गृहन्ति । सम्पति गहिंतागर्हितविशेषमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy