SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु-यत्साध्वर्थ कर्म हस्तमात्रादेर्जलपक्षालनादि क्रियते तत्पुरःकर्म । यत्पुनर्भक्तादेर्दानात्पश्चास्क्रियते तत्पश्चात्कर्म । सस्निग्धम्-ईपलक्ष्य-|| एषणायां क्तेर्मळयगि- माणजलखरण्टितं हस्तादि, उदकाई स्पष्टोपलभ्यमानसंसर्ग । सम्पति वनस्पतिकायम्रक्षितं प्रपञ्चयति २ मुक्षितरीयावृत्तिः उक्किट्ठरसालित्तं परित्तऽणतं महिरुहेसु ॥ ५३४ ॥ दोषः ॥१४९॥ व्याख्या-'उत्कृष्टरसानि' प्रचुररसोपेतानि यानि 'परित्तानां ' प्रत्येकवनस्पतीनां चूतफलादीनाम् , अनन्तानाम्-अनन्तकायिकानां च पनसफलादीनां सद्यःकृतानि श्लक्ष्णखण्डानि इति सामर्थ्यागम्यते, तैः 'आलिप्तं' खरण्टितं यद्धस्तादि, तन्महीरहेषु, अत्र |च तृतीयार्थे सप्तमी, महीरुहैम्रक्षितमवसेयं, 'परित्तणतं । इत्यत्र प्राकृतत्वाद्विभक्तिवचनव्यत्यय इति षष्ठीबहुवचनं व्याख्यातं । | सेसेहिं काएहिं तीहिवि तेऊसमीरणतसेहिं । सच्चित्तं मीसं वा न मक्खितं अत्थि उल्लं वा ॥ ५३५॥ . व्याख्या-शेषैस्तेजःसमीरणत्रसरुपैस्त्रिभिरपि सचित्तरुपं मिश्ररूपमाद्रतारूपं वा म्रक्षितं न भवति, सचित्तादितेजस्कायादिसंसगेऽपि लोके म्रक्षितशब्दप्रवृत्यदर्शनात, अचित्तैस्तु तैर्भस्मादिरूपैः पृथिवीकायेनेव म्रक्षितत्वसम्भव इति न तस्य प्रतिषेधः, वातकायेन त्वचित्तेनापि न म्रक्षितत्वं घटते, तथा लोके प्रतीत्यभावात् । सम्पति सचित्तपृथिवीकायादिम्रक्षिते इस्तमात्रे आश्रित्य भङ्गान् कल्प्याकल्प्यविषिं च प्रतिपादयति ॥१४९॥ सच्चित्तमक्खियंमी हत्थे मत्ते य होइ चउभंगो । आइतिए पडिसेहो चरिमे भंगे अणुन्नाओ ॥ ५३६ ॥ व्याख्या-सचित्तैः' पृथिवीकायादिभिम्रक्षिते हस्ते मात्रे च 'चतुर्भङ्गी ' चत्वारो भङ्गाः, सूत्रे च पुंस्त्वनिर्देश आपत्वात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy