SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ व्याख्या-म्रक्षितं द्विधा, तद्यथा-सचित्तमचित्तं च, सचितम्रक्षितमचित्तम्रक्षितं चेत्यर्थः, तत्र यत्सचित्तेन पृथिव्यादिनाऽवगुण्डितं तत्सचित्तं, यत्पुनरचित्तेन पृथिवीरजःप्रभृतिनाऽवगुण्डितं तदचित्तं, तत्र 'सचित्तं ' सचित्तम्रक्षितं पुनस्त्रिधा । एतदेव व्याख्यानयतिपुढवी आउ वणरसइ तिविहं सच्चित्तमक्खियं होइ । अच्चित्तं पुण दुविहं गरहियमियरे य भयणा उ॥५३२॥ व्याख्या-सचित्तम्रक्षितं विधा, तद्यथा-पृथिवीकायम्रक्षितमप्कायम्रक्षितं वनस्पतिकायम्रक्षितं च, सूत्रे च पदैकदेशे पदसमुदायोपचारात् पृथिव्यादिमिश्रितं पृथिवीत्याद्युक्तम् । अचित्तं-अचित्तम्रक्षितं पुनर्द्विविधं, तद्यथा-गर्हितमितरच्च, तत्र 'गर्हितं' वसादिना लिप्तम्, इतरद् घृतादिना, अत्र च कल्प्याकल्प्यविधौ ‘भजना' विकल्पना, सा चाग्रे वक्ष्यते । सम्पति सचित्तपृथिवीकायम्रक्षिवं| प्रपञ्चतो भावयति सुक्केण सरक्खेणं मक्खिय मोल्लेण पुढविकाएण। सव्वंपि मक्खियं तं एत्तो आउंमि वोच्छामि ॥ ५३३ ॥ __व्याख्या-इह सचित्तपृथिवीकायो द्विधा, तद्यथा-शुष्क आर्द्रश्च, तत्र शुष्केण सरजस्केनातीव श्लक्ष्णतया भस्मकल्पेन यद्देयं पात्रं हस्तो वा म्रक्षितो यच्चाट्टैण पृथिवीकायेन सचित्तेन म्रक्षितं तत्सर्व हस्तादि म्रक्षितं-सचित्तपृथिवीकायम्रक्षितमवगन्तव्यं, अत ऊर्द्धमप्कायविषये म्रक्षितं वक्ष्यामि पुरपच्छकम्म ससिणिडुदउल्ले चउरो आउभेयाओ। व्याख्या-अप्काये-अप्कायम्रक्षिते चत्वारो भेदाः, तद्यथा-पुरःकर्म पश्चात्कर्म सस्निग्धमुदकार्दै च, तत्र भक्तादेर्दानातु पूर्व Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy