SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ दिण्डनियुतेर्मलयागरीयावृत्तिः ॥१५०॥ एषणायां ३ निक्षिप्त दोषः मंसवससोणियासव लोए वा गरहिएहिवि वज्जेज्जा । उभओऽवि गरहिएहि मुत्तुच्चारेहि छित्तंपि ॥ ५३९ ॥ ___व्याख्या-मांसवसाशोणितासवैः अत्र सूत्रे विभक्तिलोप आपत्वात , लोके गर्हितैरपि, वाशब्दः पूर्वापेक्षया समुच्चये, म्रक्षितं वर्जयेत्, तथा 'उभयस्मिन्नपि लोके लोकोत्तरे च गर्हिताभ्यां मूत्रोच्चाराभ्यामास्तां म्रक्षितं स्पृष्टमपि वर्जयेत् । उक्त प्रक्षितद्वारम् । अथ निक्षिप्तद्वारमाह सच्चित्त मीसएस दुविहं काएस होइ निक्खित्तं । एकेकं तं दुविहं अणंतर परंपरं चेव ॥ ५४॥ | व्याख्या-इह कायेषु निक्षिप्तं द्विधा, तद्यथा-'सचित्तेषु ' पृथिव्यादिषु मिश्रेषु च । एकैकमपि द्विधा, तद्यथा-अनन्तरं परम्परं च, तत्र 'अनन्तरम् ' अव्यवधानेन 'परम्परं व्यवधानेन, यथा सचित्तपृथिवीकायस्योपरि स्थापनिका तस्या उपरि देयं वस्त्विति, इह परिहार्यापरिहार्यविभागं विना सामान्यतो निक्षिप्तं सचित्ताचित्तमिश्ररूपभेदात्रिधा, तत्र च त्रय(तिस्र)श्चतुर्भङ्ग्यः, तद्यथा-सचित्ते सचित्तं १ मिश्रे सचित्तं २ सचित्ते मिश्रं ३ मिश्रे मिश्र ४ मित्येका चतुर्भङ्गी, तथा सचित्ते सचित्तम् अचित्ते सचित्तं सचित्तेचित्तम् अचित्ते अचित्तमपि द्वितीया चतुर्भङ्गी, तथा मिश्रे मिश्रम् अचित्ते मिश्र मिश्रेऽचित्तम् अचित्तेऽचित्तमिति तृतीया चतुर्भङ्गी । सम्पत्यत्रैवानन्तरपरम्परविभागमाह पुढवी आउक्काए तेऊवाउवणरसइतसाणं । एकेक्क दुहाणंतर परंपरगणमि सत्तविहा ॥ ५४१ ॥ व्याख्या-पृथिव्यतेजोवायुवनस्पतित्रसकायानां सचित्तानां प्रत्येकं सचित्तपृथिव्यादिषु निक्षेपः सम्भवति, तत्र पृथिवीकायस्य ॥१५०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy