________________
निक्षेपः षोढा, तद्यथा-पृथिवीकायस्य पृथिवीकाये निक्षेप इत्येको भेदः, पृथिवीकायस्याप्काये इति द्वितीयः, पृथिवीकायस्य तेजस्काये| इति तृतीयः, वातकाये इति चतुर्थः, वनस्पतिकाये इति पञ्चमः, त्रसकाये इति षष्ठः । एवमकायादीनामपि निक्षेपः प्रत्येक पोढा भावनीयः, सर्वसङ्ख्यया षट्त्रिंशद्भङ्गाः, एकैकोऽपि च भेदो द्विधा, तद्यथा-अनन्तरः परम्परया च, अनन्तरपरम्परव्याख्यानं च प्रागेव कृतं, केवलमग्निकाये पृथिव्यादीनां निक्षेपः सप्तधा, एतच स्वयमेव वक्ष्यति ॥ सम्पति पृथिवीकाये निक्षेपस्य यदुक्तं प्राक् । पोढात्वं तत्सूत्रकृत्साक्षादर्शयतिसच्चित्त पुढविकाए सच्चित्तो चेव पुढविनिखित्तो । आऊतेउवणस्सइसमीरणतसेसु एमेव ॥ ५४२ ॥
व्याख्या-सचित्ते पृथिवीकाये सचित्तः पृथिवीकायो निक्षिप्तः, एवमेव-पृथिवीकाये इवाप्तेजोवनस्पतिसमीरणत्रसेषु सचित्त एव पृथिवीकायो निक्षिप्त इति पृथिवीकायनिक्षेपः पोढा । एवं शेषकायेष्वप्यतिदेशमाह
एमेव सेसयाणवि निक्खेवो होइ जीवकाएसं। एकेको सहाणे परठाणे पंच पंचेव ॥ ५४३ ॥
व्याख्या-'एवमेव' पृथिवीकायस्येव 'शेषाणाम् ' अप्कायादीनां निक्षेपो भवति 'जीवनिकायेषु' पृथिव्यादिषु, तत्रैकैको भङ्गः स्वस्थाने शेषाः पञ्च पञ्च परस्थाने, तथाहि-पृथिवीकायस्य पृथिवीकाये निक्षेपः स्वस्थाने, अप्कायादिषु शेषेषु पञ्चसु परस्थाने, एवमप्कायादीनामपि भावनीयं, ततः स्वस्थाने एकैको भङ्गः, परस्थाने पञ्च पञ्च, तदेवं प्रथमचतुर्भङ्गिकायाः सचित्ते सचित्तमित्येवंरूपे प्रथमे भने षट्त्रिंशद्भेदाः ॥ सम्पति प्रथमचतुर्भङ्गया एव शेषं भङ्गत्रयं द्वितीयतृतीयचतुर्भङ्गयौ चातिदेशतः प्रतिपादयति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org