SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ नइकण्हबिन्न दीवे पंचसया तावसाण निवसति । पव्वदिवसेसु कुलवई पालेवुत्तार सक्कारे ॥ ५०३ ॥ जण सावगाण खिसण समियक्खण माइठाण लेवेण । सावय पयत्तकरणं अविणय लोए चलणधोए ॥५०४॥ पडिलाभिय वच्चंता निब्बुड नइकूल मिलण समियाओ । विम्हिय पंचसया तावसाण पव्वज्ज साहाय ॥५०५॥ व्याख्या-अचलपुरं नाम नगरं, तत्र प्रत्यासन्ने द्वे नद्यौ, तद्यथा-कृष्णा बेना च, तयोरपान्तराले ब्रह्मनामा द्वीपः, तत्र चैकोनपञ्चशततापसपरिवृतो देवशर्मनामा कुलपतिः परिवसति, स च सक्रान्त्यादिपर्वसु स्वतीर्थप्रभावनानिमित्तं सर्वैरपि तापसैः परिवृतः पादलेपेन कृष्णा नदीमुत्तीर्याचलपुरमागच्छति, लोकश्च तथारूपं तस्यातिशयमवलोक्य विस्मितचेताः सविशेष भोजनादिसत्कारमाचरति, श्रावकजनांश्च कुत्सयते-यथा न युष्मद्गुरूणामेतादृशी शक्तिरस्तीति, ततः श्रावकैः समिताभिधसूरीणामाख्यायि, तैश्च स्वचेतसि परिभाव्योक्तं-मातृस्थानत एष पादलेपेन नदीमुत्तरति, न तपःशक्तिप्रभावतः, ततः श्रावकैस्तस्य मातृस्थानप्रकटनार्थ सपरिवारो भोजनार्थ निमन्त्रितः कुलपतिः, ततः समाजगाम भोजनवेलायां गृहे, प्रारब्धं तस्य श्रावकैः पादप्रक्षालनं कर्तुं, स च न ददाति, मा पादलेपः पादयोरपयासीदितिकृत्वा, ततः श्रावकैरुक्तं-माऽस्माकमप्रक्षालितपादान् युष्मान् भोजयतामविनय इति बलादपि प्रक्षालितौ पादौ, ततो भोजनानन्तरं निजस्थानगमनाय प्रचलितः, श्रावका अपि सकल जनानाहूयानुव्रजनबुद्धया तेन सह चलितुं । प्रवृत्ताः, ततः सपरिवारः कुलपतिः कृष्णा नदीमुत्तरितुं प्रावत, पादलेपाभावे च निमक्तुं लमः, ततो जाता जने तस्यापभ्राजना. अत्रान्तरे च तस्यावबोधाय समितसूरयस्तत्राजग्मुः, तैः सकलजनसमक्षं नदी प्रत्युक्तं-हे कृष्णे! परं पारं वयं गन्तुमिच्छामः, ततो वे मत्ताः, ततः सपरिवारः कुलपानानन्तरं निजस्थानगमनाय चालतमाऽस्माकममक्षालितपादान याका पादमक्षालनं कर्तुं, सच dain Education International For Personal &Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy