SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पिण्डनियु- अपि कृष्णानद्याः कूले एकत्र मिलिते, जातो विस्मयो लोकस्य सपरिवारस्य च कुलपतेः, ततो गृहीता सपरिवारेण कुलपतिना दीक्षा, सा उत्पादनातेर्मलयगि-ब्रह्मशाखा बभूव । सूत्रं सुगमं । तदेवं 'पायलेवणे जोगे' इति व्याख्यातं, तव्याख्यानाच योगदारं समर्थितं । सम्पति 'मूल ' त्तियां १५ यो. रीयावृत्तिः व्याचियासुराह गेसमिताअधिई पुच्छा आसन्न विवाहे भिन्नकन्नसाहणया । आयमणपियणओसह अक्खय जज्जीवअहिगरणं ॥ ५०६॥ चार्याः ॥१४४॥ जंघापरिजिय सड़ी अद्धिइ आणिजए मम सवत्ती । जोगो जोणुग्घाडण पडिसेह पओस उड्डाहो ॥ ५०७ ॥ व्याख्या-कचित्पुरे धननाम्नः श्रेष्ठिनो भार्या धनप्रिया, तस्य दुहिता सुन्दरी,सा च भिन्नयोनिका, परमेनमर्थ माता जानाति न पिता, सा च पित्रा तत्रैव पुरे कस्यापीश्वरपुत्रस्य परिणयनाय दत्ता, समागतः प्रत्यासनो विवाहो, मातुश्चिन्ता बभूव एषा परिणीता सती यदि भर्ता भिन्नयोनिका ज्ञास्यते ततस्तेनोज्झिता वराकी दुःखमनुभविष्यति, अत्रान्तरे च समागतः कोऽपि संयतो भिक्षार्थ, तेन सा पृष्टा, तया कथितः सर्वोऽपि वृत्तान्तः, ततः साधुनोक्तं-मा भैषीरहमभिन्नयोनिका करिष्यामि, तत आचमनौषधं पानौषधं च तस्यै प्रदत्तं, जाता अभिन्नयोनिका । तथा चन्द्राननायां पुरि धनदत्तः सार्थवाहस्तस्य भार्या चन्द्रमुखा, तयोश्चान्यदा परस्परं कलहः प्रवृत्तः, ततोऽभिनिवेशेन तन्नगरवास्तव्यस्यैव कस्यापीश्वरस्य दुहिता धनदत्तेन परिणयनार्थ वृता, ज्ञातश्चायं वृत्तान्तश्चन्द्रमुखया, ततो बभूव महती तस्या अधृतिः, अत्रान्तरे च जडापरिजितनामा साधुरागतो भिक्षार्थ, दृष्टा तेनाधृति कुर्वती चन्द्रमुखा, ततः पृष्टा-किं भद्रे ! त्वमधृतिमती दृश्यसे?, ततः कथितस्तया सपत्नीव्यतिकरः, ततः साधुना समर्पितं तस्या औषध, भणिता च सा-कथमपि तस्या भक्तस्य पानस्य मध्ये देयं येन सा भिन्नयोनिका भवति, ततः स्वभत्रै निवेदयः, येन सा न परिणीयते, तथैव कृतं, न परिणीता सा भत्रेति । सूत्रं सुगमं । नवरं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600233
Book TitlePind Niryukti
Original Sutra AuthorAbhaydevsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages366
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy