Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 250
________________ १७३ २।१५०-५१] २ अनुमानप्रस्तावः च शब्दः अपिशब्दार्थो भिन्नप्रक्रमश्च 'निर्णये' इत्यत्र द्रष्टव्यः । निर्णयेऽपि न केवलं तदभावे । क ? बहिः नीलधवलादौ अनिर्णयात् निर्णयाभावात् । क ? अन्तः निर्णयस्वरूपे । न हि तत्र तेषामपि निर्णयः परतः; अनवस्थानात्, स्वतश्च निर्विकल्पत्वात् । ततश्च मोहः प्रज्ञामान्यलक्षणः तादृशः तदभ्यासेऽपि यादृशः पूर्वम् । स्वरूपानिर्णये' परनिर्णयस्याप्यभावादिति मन्यते । भवन्मतेऽषि कथं महामतित्वम् ! श्रुतज्ञानपरिशीलनादेव तद्भावात, तज्ज्ञानस्य . चावस्तुविषय- ५ त्वादिति चेत् ? न; तस्यापि वस्तुगोचरत्वेन व्यवस्थापनात्, सकलस्यापि शास्त्रप्रयासस्य तदर्थत्वात् । न च तदभ्यासान्महामतित्वम्, जीवस्य स्वशक्तित एव तद्भावात् । प्राणिमात्रस्यापि कुतो न भवतीति चेत् ? भवत्येवः कथमन्यथा 'सत् सर्वमनेकान्तात्मकम्' इत्यादि व्याप्तिज्ञानम् ? प्रतिक्षणपरिणामादिसकलसूक्ष्मविशेषेष्वपि किन्नेति चेत् ? स्यादेव यद्यसौ अनावृतः स्यात् । एतदेव दर्शयति जीवः प्रतिक्षणं भिन्नश्चतनो यदि नावृतः ॥१५०॥ सकलग्रहसामर्थ्यात्तथास्मानं प्रकाशयेत् । इति । जीवो व्याख्यातस्तथा तेन सकलपकारेण आत्मानं स्वरूपम् , उपलक्षणमिदं तेन परमपि । प्रकाशयेत् स्पष्टपतिभासं विदध्यात् । कुतः ? 'सकलग्रहसामर्थ्यात्' इति । स्पष्टमिदम् । इदञ्च व्याप्तिज्ञानबलादेवावगम्यते । कदा प्रकाशयेत् ? यदि नावृतः कर्मविशेषेण प्रच्छादितो यदि न भवेत् । तत्पच्छादितश्चायं स्वविषयेऽप्यप्रवृत्तिमत्त्वात् कामलिवत् । कामली हि स्वविषयेऽपि १५ चन्द्रैकत्वादौ कामलावरणवत्त्वादेव अप्रवृत्तिमान् प्रसिद्ध इत्युपपन्नो दृष्टान्तः । तस्य तद्विषयत्वं चावरणात् पूर्व पश्चाच्च तेनाधिगतेः । प्रतिक्षणपरिणामादेरपि विशेषस्य जीवविषयत्वम्, सामान्येन व्याप्तिज्ञाने प्रतिभासनात् चन्द्रकत्वादिवदेव । तद्धि कामलिज्ञाने चन्द्रत्वादिना सामान्येन प्रतिभासमानं योग्यतया तद्विषय एब, अन्यथा तदावरणापायेऽप्यविषयत्वप्रसङ्गादिति निरवद्यमुदाहरणम् । - सत्यध्यावरणे जीवस्य नित्यत्वेन सकलग्रहणशक्तरपरिक्षयात् कथं स्वविषयेऽप्यवृत्तिरिति चेत् ? न; २० एकान्तेन नित्यत्वाभावात् । प्रतिक्षणपरिणामिनश्च तद्वशात् तत्परिक्षयस्योपपत्तेः । सकलग्रहणसामर्थ्यमपि तस्य अर्थान्तरज्ञानसमवायादेव न स्वत इति कश्चित्; तन्न; स्वतश्चेतनस्य तद्वैयर्थ्यात् । चेतनत्वमपि ततै एवेति चेत् ; न; आकाशादावपि तत्प्रसङ्गात् तदविशेषात् । अथास्ति कश्चिद्विशेषो यतो जीवस्यैव ततस्तत्त्वं नाकाशादेः; स तर्हि जीवस्वभावो भवंश्चेतनत्वान्नापर इति व्यर्थमेव तत्समवायस्य कल्पनमिति एतत् चेतनपदेन दर्शितम् । तदेवं जीवस्यावरणवशादसकलज्ञत्वम्, तदपगमे तु २५ स्वत एव सकलज्ञत्वेन महामतित्वं न श्रुतज्ञानपरिशीलनात् । तत्तु तदावरणस्यैव तदास्रवनिरोधद्वारेण परिक्षयार्थमिति सर्व समञ्जसम् । प्रतिक्षणपरिणामे जीवस्य क्षणिकत्वमेव न नित्यत्वमिति चेत्, न तस्यापि प्रत्यभिज्ञानबलेन तत्र व्यवस्थापितत्वात् , तदपि सदृशापरापरोत्पत्तिविभ्रमादेव' . न तात्त्विकादेकत्वादिति चेत्; अत्राह १-निर्णयैरपर-श्रा, ब०, प० । २ वैशेषिकः । ३ समवायादेव । ४ समवायाच्चेतनत्वम् । ५ श्रुतज्ञानपरिशीलनम् । ६"प्रत्यभिज्ञानं ।"-ता०टि ।

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538