Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 425
________________ ३४८ न्यायविनिश्चयविवरणे [३६४ सूचनात् । तावदिति वाक्यालङ्कारे । यश्चेतसां सन्तानः सुगतानामा तिष्ठत्येव न निर्वाति । कुतः ? करुणावत्त्वात् स समत्वं मैत्रीरूपम् उपलक्षणमिदम्, तेन प्रमोदादिकमपि न प्रपद्यते न कर्तृत्वेन प्राप्नोति विषयाभावात् । अस्त्येव सन्तानान्तरं विषयः तत्र सत्त्वमात्रे मैया व्रतचारिणि प्रमोदस्य क्लेशवति करुणाया निघृणादावुपेक्षायाश्च तेन प्रपत्तेंरिति चेत्, न; तत्र सर्वत्रापि तेन नैरात्म्यज्ञानप्रधानेनोच्छेदस्यैव करणात् । न च तद्गोचरं मैग्यादिकं व्योमकुसुमादिवत् । न यदा मैत्र्यादिकं तदा तत्रोच्छेद: पश्चादेव तस्य भावादिति चेत् ; न; वस्तुसति पश्चादपि तद्भावस्य निषेधात् । अवस्तुसतश्च पूर्वमपि कस्तस्योच्छेदाद्विशेषः यतो मैयादेविषयः स्यात् ? अध्यारोपतः सत्त्वमिति चेत्, न; अवस्तुसति तस्यैवाभावात् । तस्यापि ततो भावेऽनवस्थापत्तेः । सुगतस्यैव तदध्यारोप इति चेत् ; तेन तहि तत्र सत्त्वमध्यारोप्य पुनस्तदुच्छेदकरणात्तदेव नाध्यारोपयितव्यम्, “प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम्” [प्र. वार्तिकाल० १११४७ ] इति न्यायात् । तन्न अवस्तुसतः पूर्वमपि तद्विषयत्वम् । वस्तुसत्त्वे तु कथं तत्रैव मैत्र्यादिरुच्छेदश्च विरोधात् ? न विरोधः, रागादिदुःखोपशमरूपत्वेनोच्छेदस्यैव परेषामिष्टत्वादिति चेत् ; न; अभीष्टत्वेऽपि स्वसन्तान वद्वस्तुसत्युच्छेदस्याशक्यत्वात् । तन्न तदुच्छेदात्मा मोक्षः सम्भवति । कस्तहि वक्तव्य १५ इत्याह तस्मात् [ निरास्रवीभावः संसारान्मोक्ष उच्यते । सन्तानस्यात्मनो वेति शब्दमात्रं तु भिद्यते ] ॥६४॥ इत्यादि । तस्मात् उक्तस्य मोक्षस्यासम्भवात् निरास्रवीभावो मिथ्याज्ञानरागादेरास्रवादनिष्क्रान्तस्य निष्क्रान्तस्य भावो भवनं संसारान्मोक्ष उच्यते मोक्षवेदिभिः । भवतु सन्तानस्य २० इति परः । तत्रोत्तरम्-आत्मनो वा इति, आत्मन एवेत्यर्थः । वाशब्दस्यावधारणार्थत्वात् आत्मन एव 'कथञ्चित् संवेदनान्वयरूपस्य सन्तानत्वोप पत्तेः, निरन्वयज्ञानप्रवाहस्याशक्यकल्पनत्वेन निरूपितत्वात् । कस्तहि सन्तानात्मनोभैंद इति चेत् ? न कश्चिदर्थतः । केवलं सन्तान इति आत्मेति च 'शब्दमानं तु भिद्यते' इति । कथं पुनर्निरास्रवस्याप्यात्मनः परापरशरीरसञ्चाराभावः, तत्सञ्चारकारिण एव तस्य "प्राग्लब्धत्वात् । पश्चादतत्कारित्वे २५ तु परापरज्ञानपर्यायकारित्वमपि न भवेदिति स एवोच्छेदभावः पुनरप्यागत इति चेत् ; न; तत्र कारणाभावात् । न हि आत्मैव तत्सञ्चारे कारणम्, अपि तु अविद्यातृष्णादिरपि । तत्त्वज्ञानपरिपाकवतश्च तदभावेन सामग्रीवैकल्यान्न युक्तं तत्सञ्चारकारणत्वम् । आत्मनः परापरपरिशुद्धज्ञानपर्यायापेक्षया तु निरपेक्षत्वेन कारणत्वस्यैवोपपत्तेः न तदुच्छेदवादप्रत्यावृत्तिरपि । न चैवं तस्यानवस्थितपरापरपरिमाण स्याप्यवकल्पनम्, तत्रापि कर्मसचिवस्यैव तस्य कारणत्वात्, अधिगतनिःश्रेयसस्य च कर्माभावात् । ततः परित्यक्तकायपरिच्छिन्नतया अवस्थितमेव तस्य परिमाणम् । तदपि कर्माधिपत्येनोपनिबद्धं तदभावे कथमिति चेत् ? १ प्रतिपत्ते-पा०, ब०, प०।२-पिन नैरा-पा०, ब०, प०। ३ -णायां न चरद्गो-श्रा०, ब०, प० । ४ मैन्यादिवि-श्रा०, ब०, प० । ५-पि भावे-श्रा०, ब०, प० । ६ कर्तव्य इ-श्रा०, ब०, प० । ७ -स्य भवनं प्रा०, ब०। -स्य निष्क्रान्तस्य भवनं प० । पूर्वमनिष्क्रान्तस्य पश्चानिष्क्रान्तस्य । ८ कथं चेत् आ०, ब०, प०। ९-पत्तेरन्वय-पा० ब०, प० । १० प्रारबद्धत्वात् आ०, ब०, प० । ११ तत्सञ्चारिका -प्रा०, ब०, प०। १२ -णस्याप्यक -प्रा०, ब०, प० ।

Loading...

Page Navigation
1 ... 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538