Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 434
________________ ३७७-७८] ३प्रवचनप्रस्ताव: ३५७ न च तत्प्रभवत्वमुत्पत्तिसमये शक्यावसायम्, तदानीं तद्गर्भत्वाऽतद्गर्भत्वयोरविवेचनात् । प्रवृत्तितः शक्यावसायमेव तदिति चेत्, न; दोषाशङ्कायां प्रवृत्तेरेवासम्भवात् । तन्न प्रत्यक्षं निःशङ्कम् । एवमनुमानमपि । तस्यासम्भवाच्च । नहि निःशङ्कप्रत्यक्षस्याभावे ततः सम्बन्धप्रतिपत्तिः, यतोऽनुमानं सम्भवेत् । सत्यपि तस्मिन् कथं ततः साकल्येन तत्प्रतिपत्तिः ? तस्य सन्निहितवस्तुमात्रविषयत्वात् । अनुमानतस्तत्प्रतिपत्तावनवस्थापत्तेः। प्रादेशिक- ५ तत्प्रतिपत्तेश्च व्यभिचारेणानुमानकारणत्वायोगादिति चेत्; सत्यम् ; अयमपि परस्य पर्यनयोगः । तन्न प्रत्यक्षानुमानयोनिरारेकर प्रामाण्यं वस्तु प्रतिबन्धनिश्चयाभावात् । एवमेतत्, तथापि व्यवहर्तृ जनाभिप्रायेणा'विसंवादात्तयोः प्रामाण्यमभ्यनुज्ञायते । अन्यथा सकलव्यवहारविलोपप्रसङ्गादिति चेत् ; प्रवचनस्यापि तथैव तदभ्यनुज्ञातव्यम्, तदभावेऽपि तदर्थानुष्ठानादिव्यवहारस्याभावप्रसङगात् । तन्न व्यवहारतोऽपि प्रमाणद्वैविध्यकल्पन- १० मुपपन्नं तदन्तरस्यापि भावात् । तहि प्रवचनवत् प्रत्यक्षानुमानयोरपि तन्मा भूत्, संविदद्वैतस्यैव पारमार्थिकस्य प्रमाणस्य भावादिति चेत् ; तस्यापि कथं प्रामाण्यम् ? स्वरूपप्रकाशनस्य गुणस्य दर्शनादिति चेत्, प्रवचनस्यापि स्यात्, तत्रापि “सत्यचतुष्टयप्रकाशनस्य तस्य दर्शनात् । प्रत्यागमेन व्यभिचार इति चेत् ; भवतोऽपि भेदप्रकाशेन कस्मान्न भवति ? तत्र विचारासहत्वदोषस्य भावात् । तस्य चाद्वैतसंवित्तावदर्शनादिति चेत् ; समानमितरत्रापि । १५ ततः स्वसंवेदनं प्रमाणयता प्रवचनमपि प्रमाणमभ्युपगन्तव्यमविशेषात् । एतदेवाह प्रत्यक्षागमयोरिष्टं प्रामाण्यं गुणदोषयोः । उपलब्ध्यनुपलब्धिभ्यां क्वचिद्वृत्तसमत्वतः ॥७७॥ इति । क्वचित् विषययोरद्वैतचतु:सत्ययोः यथाक्रम प्रत्यक्षागमयोः स्वसंवेदनप्रवचनयोः प्रामाण्यमिष्टं अभ्युपगतम्। तदिच्छाया निष्पन्नत्वेनाशक्यचालनत्वज्ञापनार्थ निष्ठायां २० निर्देशः । कुतस्तदिष्टम् ? वृत्तसमत्वतः वृत्तम् अनन्तरव्यावर्णितं यत्प्रत्यक्षागमयोः समत्वं सादृश्यं तत इति । तदेव कुतः ? इति चेत् ; गुणदोषयोः उपलब्ध्यनुपलब्धिभ्यामिति, व्याख्यातमिदं पातनिकयैव । तदेवं प्रवचनस्य प्रामाण्ये यत्सिद्धं तदाह तथा साक्षात्कृताशेषशास्त्रार्थोऽतानपेक्षणात् । सद्वत्तकेवलज्ञानः सर्वज्ञः सम्प्रतीयते ॥७८॥ तथा तेन प्रवचनप्रामाण्यप्रकारेण तस्य प्रणेता सर्वज्ञः सकलवेदी सम्प्रतीयते प्रणेतः सर्वज्ञत्वाभावे तत्प्रामाण्यानुपपत्तेः निरूपणात् । कीदृशोऽसौ सर्वज्ञः इति चेत् ? 'स्यादेवं यदि नियतार्थमेव प्रवचनम्, न चैवम्, तस्यापि प्रत्यक्षानुमेयात्यन्तपरोक्षलक्षणस्थानत्रयपरिवर्तिपदार्थजातविषयत्वेनाशेष गोचरत्वात् तज्ज्ञानादेव सर्वज्ञत्वोपपत्तेः। यद्येवं छद्मस्थादर्हतः को विशेषः ? तस्याप्यागमतो सर्वज्ञत्वसम्भवादिति चेत् ; सर्वविषयसाक्षात्करणमेव । ३० अतएवोक्तं साक्षात्कृताशेषशास्त्रार्थः इति। अशेषस्य शास्त्रार्थस्य साक्षात्करणं भगवत्येव, . सकलावरणपरिक्षयस्य तन्निबन्धनस्य तत्रैव भावात् न छद्मस्थे विपर्ययात् । निरूपितश्च तस्य १-त्वात्तद्गर्भत्वयो-पा०, ब० प० । २ प्रवृत्तिः शम्या-पा० ब०, प० । ३ -रेकप्रामा-पा०, ब०, प०।४ वस्तुनिश्च -प्रा०, १०, प०। ५-येण वि-प्रा०, ब०, प०।६-दाभिसंज्ञातयोः श्रा० ब० प०।७प्रवचनस्य । ८ दुःखसत्यम्, समुदयसत्यम, निरोधसत्यम्, मार्गसत्यमिति सत्यचतुष्टयम् । ६ स्यादेवं प्रश्नः । १० -पदोषगो- श्रा०, ब०, प० । ११ "विशेष इति सम्बन्धः" -ता०दि ।

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538