Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 437
________________ न्यायविनिश्चयविवरणे [३८४-८५ प्रमाण मिति विभक्तिपरिणामाल्लब्धं ज्ञानमिति च वक्ष्यमाणमत्रापि सम्बध्यते । ततो यत्प्रमाणं तद् ज्ञानम् अन्यथा तदनुपपत्तेरित्युक्तं भवति । द्विचन्द्रादिज्ञानस्यापि प्रामाण्यप्रसङ्गे तन्निवृत्त्यर्थम् अविप्लवग्रहणम् । 'व्यवहारत एव केवलमविप्लवत्वं वस्तुतः सर्व ज्ञानानां स्वप्नादिवत्सविप्लवत्वात्' इत्यस्य व्युदासार्थम् अञ्जसा ग्रहणम् । वस्तुतः ५ क्वचिदप्यविप्लवाभावे । सर्वज्ञानविप्लवस्यापि दुरुपपादत्वेन निरूपितत्वात् । तच्च प्रमाणं द्विविधं प्रत्यक्षं परोक्षमिति । प्रत्यक्षं स्पष्टं परिस्फुटम् । तदपि द्विविधम्-मुख्यसंव्यवहारविकल्पात् । मुख्यमप्यवधिमनःपर्ययकेवलभेदात् त्रिविधम् । व्यावहारिकमपि द्विविधम्-इन्द्रियप्रत्यक्षमनिन्द्रियप्रत्यक्षमिति च निरूपितरूपम् । अन्यदिति परोक्षम् । तत्कीदृशम् ? श्रुतं अस्पष्टोल्लेखम् । "श्रुतमस्पष्टतर्कणम्" [त० श्लो० पृ० २३७] इति वचनात् । तच्च प्रत्यभिज्ञादौ स्मरणादौ । प्रत्यभिज्ञापदेन तत्कारणत्वेन स्मरणस्याभिधानात् । प्रकीर्ण प्रक्षिप्तं न बहिर्भूतम्, उपमानादेरपि तद्बहिर्भावे परपरिकल्पितप्रमाणसङख्यानियमाभावस्य निरूपणात् । ततो द्वे एव प्रत्यक्षपरोक्षरूपे प्रमाणे इति सङग्रहः सङक्षेपतः प्रतिपत्तिः शास्त्रार्थस्य । सम्प्रति परोक्षविकल्पानां प्रागुपवर्णितमपि प्रामाण्यमनुस्मरणार्थ पुनरुपदिदर्शयिषुः प्रथमं तदाद्यत्वात् स्मरणज्ञानस्योपदर्शयति इदमेवमिति ज्ञानं गृहीतग्रहणेऽपि नः । इति । द्विविधं च स्मरणम् ‘इदमेवम्' इत्येकम्, 'एवम्' इति च द्वितीयम् । तदुभयम् ‘इदमेवम्' इत्युच्यते, परस्याप्येवम्पदस्य समानश्रुतिकत्वेनैकोच्चारणगम्यस्यात्र भावात् । तत्र यदवग्रहादेरक्षज्ञानस्यानन्तरमर्थाभिलापस्मरणेन 'नीलमिदं पीतमिदम्' इत्याकारं ज्ञानं तदिदमेवमिति स्मरणम् । तदस्माकं प्रमाणमविसंवादात् प्रत्यक्षवत् । अपूर्वार्थाभावान्नेति चेत् ; न; प्रत्यक्षगृहीतस्य तेन ग्रहणेऽपि कथञ्चिदपूर्वार्थत्वात् शब्द संसृष्टत्वस्यागृहीतस्यैव प्रतिपत्तेः । प्रत्यक्षविषयस्य क्षणिकत्वेनापक्रमात् कथं तस्यैव पुनस्तत्संसृष्टत्वेन ग्रहण मिति चेत् ? न; एकान्ततः क्षणिकत्वस्य प्रतिक्षिप्तत्वात् । कथञ्चिदक्षणिकत्वेऽपि पूर्वाकारस्यातीतत्वेनाग्रहणात् । कथं तस्यैव पुनर्विशिष्टस्य ग्रहणमिति चेत्, न; शक्तिविशेषे क्षयोपशमलक्षणे 'सत्यतीतत्वादेरकिञ्चित्करत्वात् । क्षणिकत्वेऽपि भावानां कथमस्याप्रामाण्यम् ? अस्वलक्षणविषयत्वादिति चेत् ; अनुमानस्यापि स्यात् । स्वलक्षणप्रतिबन्धान्नेति चेत् ; न; अत्रापि तुल्यत्वात्, पारम्पर्येण स्वलक्षणादुत्पत्तेरविशेषात् । ततोऽवश्यं प्रमाणयितव्यं व्यवहारसिद्धत्वाच्च । अन्यथा “प्रामाण्यं व्यवहारेण" [प्र० वा० १७ ] इत्यसङ्गतं स्यात् । तथा यदेवमिति ज्ञानमतीतमात्रस्मरणं तदपि प्रमाणं तद्वदेवाविसंवादात् । गृहीतग्राहित्वान्नेति ...चेत; अनुमानं कथम् ? समारोपव्यवच्छेदादिति चेत् ; न; स्मरणादप्यदर्शनसमारोप३० व्यवच्छेदेन व्यवहारप्रसिद्धः । ततो युक्तं तस्यापि प्रामाण्यं कथञ्चिदपूर्वार्थत्वस्यापि भावात, - सन्निहिततया हि तद्ग्रहणमक्षज्ञानेन अतीततया च स्मरणेनेति । " साम्प्रतं तर्कस्य प्रामाण्यं दर्शयितुमाह प्रत्यक्षेऽर्थेऽन्यथारोपव्यवच्छेदप्रसिद्धये ॥४॥ अनुमानम् [ अतो हेतुव्यवच्छेदेऽनवस्थितिः] इति । १-णमितीति प्रा०, ब०, प० । २-दविप्लवा- प्रा०, ब०, प० । ३ -मतिपूर्व श्रुतं प्रोक्तमविस्पष्टार्थतर्कणम् । -त० सा० श्लो० ४५। ४-वे परिक- प्रा०, ब०, ५०। ५-कारं तदि-प्रा०, ब०, प०।६-संस्पृष्टत्व- प्रा०, ब०, प० । ७ सत्यभीत-पा०, ब०,प० । 24

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538