Book Title: Nyayvinischay Vivaran Part 02
Author(s): Vadirajsuri, Mahendrakumar Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 439
________________ ३६२ न्यायविनिश्चयविवरणे [३६ साधनम् अध्यवसायः तदुपमानं प्रमाणम् । न चेदमप्रमाणमेव, प्रत्यक्षस्मरणविषयत्वादिति शक्यं वक्तुम् ; प्रत्यक्षेण सादृश्यस्यैव स्मरणेनापि गोरेव केवलस्य ग्रहणात्, न तयोरन्यतरस्येतरविशिष्टस्य । तत्र तूपमानमेव प्रमाणं तत एव तस्य प्रतिपत्तेः । तदुक्तम् "तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतः सिद्धरुपमानप्रमाणता ॥" [ मी० श्लो० १।१।५ उप० श्लो० ३७, ३८ ] ___ यदि वा, पूर्व 'गौरिव गवयः' इत्यतिदेशवचनात् पुनरटवीगतेन च प्रत्यक्षतः प्रति१० पन्नः प्रसिद्धोऽर्थो गवयः तस्य साधात्तद्वचनादिसहायात् यत् साध्यस्य 'सोऽयं गवयशब्द वाच्योऽर्थः' इति संज्ञासंज्ञिसम्बन्धस्य साधनं प्रतिपत्तिः तदुपमानं तत्फलम्, 'साक्षात्प्रत्यक्षागमसामग्रया एवोपमानत्वात् । न चेदं प्रत्यक्षमेव ; आगमव्यपेक्षणात् । नाप्यागम एव; ततः सामान्येनैव साध्यस्य, अतश्च विशेषतः प्रतिपत्तेः, उपक्रमभेदादागमादस्यार्थान्त रत्वोपपत्तेः, उपमानतयैव प्रमाणत्वावकल्पनमस्येति मीमांसका नैयायिकाश्च प्रतिपन्नाः । तान्प्रत्यतिप्रसङगं १५ दर्शयन्नाह यदि किश्चिद्विशेषेण प्रमाणान्तरमिष्यते । 'प्रमितार्थे प्रमाणानां बहुभेदः प्रसज्यते ॥८६॥ इति । प्रमितार्थो मीमांसकस्य गवादिः प्रत्यक्षादिना तस्यावगमात् नैयायिकस्य संज्ञासंज्ञिसम्बन्धः, तस्याप्यागमतोऽध्यवसायात् । तत्र यदि किञ्चिद्विशेषेण अल्पभेदेन प्रमाणान्तरं प्रत्यभिज्ञाना२० दुपमानमन्यत्प्रमाणम् इष्यते तदा प्रमाणानां बहु यथा भवति तथा भेदो नानात्वं प्रसज्यते । तथाहि गवय एव गोः समान इतिवत् तमालात्तालद्रुमो दीर्घः बिल्वादामलकमल्पं क्षीरादपीक्षुरसो' मधुरतरो माथुराः पाटलिपुत्रकेभ्य आढयतरा इत्यादिज्ञानं प्रत्यक्षस्मरणविषयविशिष्टदीर्घाल्पादिभेदोपाधितालामलकादिगोचरम् उपमानादन्योऽन्यतश्चानन्तर्भावेन भिन्न जातीयमेव प्रमाणमिति न षट्प्रमाणनियमव्यवस्थापनं मीमांसकस्योपपन्नं भवेत् । तथा गवय२५ दर्शिन एव तद्विसदृशो महिष इति च ज्ञानस्य प्रमाणान्तरत्वात् । शक्यं हि वक्तुम् - प्रत्यक्षेणावबुद्धेऽपि वैधये महिषे स्मृते । विशिष्टस्यान्यतः सिद्धेस्तस्यैवात्र प्रमाणता ॥१८२५॥ इति । तथा नैयायिकस्यापि न प्रमाण चतुष्टयनियमकल्पनं प्रसिद्धसाधादिवान्यतोऽप्यनेकधा संज्ञासंज्ञि प्रतिबन्धबुद्धेर्भावात् । तथाहि-क्षीरनीरविभागकारी हंसः, षट्चरणो मधु३० करः, एकविषाणो गण्डकः, श्वेतछसिंहासनालङकृतो राजा', इति विश्वस्तवचनात् प्रतिपद्य पुनर्ह सादिकं पश्यतः स एष हंसादिवाच्योऽर्थ इति प्रतिपत्तेर्बहुलमुपलम्भात् । प्रत्यभिज्ञवाल्पत्वादिज्ञानं प्रागुपलब्ध स्यैव तस्य पुनर्विशिष्टतया सङकलनादिति चेत् ; सिद्धमुपमानस्यापि तत्त्वमविशेषात् । भवतस्तहि स्मरणादि किन्नाम प्रमाणमिति चेत् ? आह १ साक्षात्तत्प्र-श्रा०, ब०, प० । २ प्रमितार्थः प्र-प्रा०, ब०, प० । ३-धस्यास्यगतोऽध्यश्रा०, ब०, प०।४-रसा मधुरा माधुराः पा-श्रा०, ब०, प०।५-चरादुप-प्रा०, ब०, प०।६-ति नष्टं प्रमा- श्रा०, २०, प० । ७ गवं तु दर्शि- श्रा०, ब०, प० । ८ प्रतिसम्बन्धप्रसिद्धर्भाआ०, ब०, प०।६ -तयापि स-श्रा०, ब०, प० ।

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538