________________
३६२ न्यायविनिश्चयविवरणे
[३६ साधनम् अध्यवसायः तदुपमानं प्रमाणम् । न चेदमप्रमाणमेव, प्रत्यक्षस्मरणविषयत्वादिति शक्यं वक्तुम् ; प्रत्यक्षेण सादृश्यस्यैव स्मरणेनापि गोरेव केवलस्य ग्रहणात्, न तयोरन्यतरस्येतरविशिष्टस्य । तत्र तूपमानमेव प्रमाणं तत एव तस्य प्रतिपत्तेः । तदुक्तम्
"तस्माद्यत्स्मर्यते तत्स्यात्सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतः सिद्धरुपमानप्रमाणता ॥"
[ मी० श्लो० १।१।५ उप० श्लो० ३७, ३८ ] ___ यदि वा, पूर्व 'गौरिव गवयः' इत्यतिदेशवचनात् पुनरटवीगतेन च प्रत्यक्षतः प्रति१० पन्नः प्रसिद्धोऽर्थो गवयः तस्य साधात्तद्वचनादिसहायात् यत् साध्यस्य 'सोऽयं गवयशब्द
वाच्योऽर्थः' इति संज्ञासंज्ञिसम्बन्धस्य साधनं प्रतिपत्तिः तदुपमानं तत्फलम्, 'साक्षात्प्रत्यक्षागमसामग्रया एवोपमानत्वात् । न चेदं प्रत्यक्षमेव ; आगमव्यपेक्षणात् । नाप्यागम एव; ततः सामान्येनैव साध्यस्य, अतश्च विशेषतः प्रतिपत्तेः, उपक्रमभेदादागमादस्यार्थान्त रत्वोपपत्तेः,
उपमानतयैव प्रमाणत्वावकल्पनमस्येति मीमांसका नैयायिकाश्च प्रतिपन्नाः । तान्प्रत्यतिप्रसङगं १५ दर्शयन्नाह
यदि किश्चिद्विशेषेण प्रमाणान्तरमिष्यते ।
'प्रमितार्थे प्रमाणानां बहुभेदः प्रसज्यते ॥८६॥ इति । प्रमितार्थो मीमांसकस्य गवादिः प्रत्यक्षादिना तस्यावगमात् नैयायिकस्य संज्ञासंज्ञिसम्बन्धः, तस्याप्यागमतोऽध्यवसायात् । तत्र यदि किञ्चिद्विशेषेण अल्पभेदेन प्रमाणान्तरं प्रत्यभिज्ञाना२० दुपमानमन्यत्प्रमाणम् इष्यते तदा प्रमाणानां बहु यथा भवति तथा भेदो नानात्वं प्रसज्यते ।
तथाहि गवय एव गोः समान इतिवत् तमालात्तालद्रुमो दीर्घः बिल्वादामलकमल्पं क्षीरादपीक्षुरसो' मधुरतरो माथुराः पाटलिपुत्रकेभ्य आढयतरा इत्यादिज्ञानं प्रत्यक्षस्मरणविषयविशिष्टदीर्घाल्पादिभेदोपाधितालामलकादिगोचरम् उपमानादन्योऽन्यतश्चानन्तर्भावेन भिन्न
जातीयमेव प्रमाणमिति न षट्प्रमाणनियमव्यवस्थापनं मीमांसकस्योपपन्नं भवेत् । तथा गवय२५ दर्शिन एव तद्विसदृशो महिष इति च ज्ञानस्य प्रमाणान्तरत्वात् । शक्यं हि वक्तुम् -
प्रत्यक्षेणावबुद्धेऽपि वैधये महिषे स्मृते ।
विशिष्टस्यान्यतः सिद्धेस्तस्यैवात्र प्रमाणता ॥१८२५॥ इति । तथा नैयायिकस्यापि न प्रमाण चतुष्टयनियमकल्पनं प्रसिद्धसाधादिवान्यतोऽप्यनेकधा संज्ञासंज्ञि प्रतिबन्धबुद्धेर्भावात् । तथाहि-क्षीरनीरविभागकारी हंसः, षट्चरणो मधु३० करः, एकविषाणो गण्डकः, श्वेतछसिंहासनालङकृतो राजा', इति विश्वस्तवचनात् प्रतिपद्य
पुनर्ह सादिकं पश्यतः स एष हंसादिवाच्योऽर्थ इति प्रतिपत्तेर्बहुलमुपलम्भात् । प्रत्यभिज्ञवाल्पत्वादिज्ञानं प्रागुपलब्ध स्यैव तस्य पुनर्विशिष्टतया सङकलनादिति चेत् ; सिद्धमुपमानस्यापि तत्त्वमविशेषात् । भवतस्तहि स्मरणादि किन्नाम प्रमाणमिति चेत् ? आह
१ साक्षात्तत्प्र-श्रा०, ब०, प० । २ प्रमितार्थः प्र-प्रा०, ब०, प० । ३-धस्यास्यगतोऽध्यश्रा०, ब०, प०।४-रसा मधुरा माधुराः पा-श्रा०, ब०, प०।५-चरादुप-प्रा०, ब०, प०।६-ति नष्टं प्रमा- श्रा०, २०, प० । ७ गवं तु दर्शि- श्रा०, ब०, प० । ८ प्रतिसम्बन्धप्रसिद्धर्भाआ०, ब०, प०।६ -तयापि स-श्रा०, ब०, प० ।