________________
३।८७-८८ ]
३६३
३ प्रवचनप्रस्तावः
सर्वमेतच्छ्रु तज्ञानम् [अनुमानं तथागमः ] । इति ।
सर्व निरवशेषम् एतत् प्रकृतं स्मरणप्रत्यवमर्शतर्क लक्षणं श्रुतज्ञानं परोक्षप्रमाणम् अस्पष्ट्यात् । इदमेवमिति ज्ञानं स्पष्टमेव सन्निहितविषयत्वादिति चेत्; न; तस्यापि 'सङ्केतिताभिलापयोजनायामस्पष्टत्वात् । कथं तर्हि तच्छ्रुतमेव स्पष्टांशस्यापि भावात् ? न चेदं ज्ञानद्वयमेव, एकस्यैव विकल्पेतरतयेव स्पष्टेतरतयापि प्रत्यवभासनात्, अन्यथा ५ सन्तानान्तरवदप्रतिसन्धानप्रसङ्गादिति च ेत्; सत्यमिदं श्रुतत्वकथनं तु तत्र साभिलाप:विषयप्रतिपत्तौ तदंशस्यैव प्राधान्यात् । ततो युक्तं स्मरणादेः 'परोक्षत्वम् ।
अर्थापत्तिस्तर्हि प्रमाणान्तरमिति चेत्; न; तस्या अनुमानत्वात् व्याप्तिसामर्थ्यादुत्पत्तेः । बहिर्व्याप्तिरभावादर्थापत्तिरिति च ेत्; न; अनुमानस्याप्यन्तर्व्याप्तिरेव गमकत्वस्य निरूपणात् । एतावता च भेदे पक्षधर्मवत्यास्ततस्तद्विकला किन्न प्रमाणान्तरम् ? अन्यथा - १० नुपपत्तेरविशेषादिति च ेत्; अत एवानुमानादपि न भवेत् ।
अभावज्ञानं तु भूतलादो कैवत्यमात्रे प्रत्यक्षम् निषेध्यविशेषोपहिते प्रत्यभिज्ञानम्, अविनाभावापेक्षायामनुमानम्, वचनमूलत्वे चागम इति न प्रमाणान्तरम् । अनुमानागमयोरचा स्पष्टप्रतिभासत्वान्न परोक्षाद्भेदः । तदाह - ' अनुमानं तथागमः' इति । न केवलं स्मृत्यादिकमेव श्रुतज्ञानम् अपि त्वनुमानं तद्वदागमश्च ेति ।
कथं पुनरागमः प्रमाणमिति च ेत् ? आह
१५
सम्प्रदायाविघातेन यदि तत्त्वं प्रतीयते ॥ ८७ ॥ इति । सर्वज्ञोपदेशमूलमुपदेशपारम्पर्य सम्प्रदायः तस्याविधातोऽविच्छेदस्तेन तत्त्वम् आगमवाच्यं यदि प्रतीयते प्रमाणमागमो नान्यथा तथा च तत्प्रतिपत्तिर्भगवत्प्रवचनादेव, शक्यपरिच्छेदे वस्तुनि प्रत्यक्षादिना संवादस्यान्यत्र विसंवादानवभासस्य च शास्त्रलक्षणस्य २० तत्रैव प्रतिपत्तेः प्रत्यागमेषु च विपर्ययात् । ततः स्थितं प्रत्यक्षं परोक्षं चेति द्वे एव प्रमाणे इति । किं पुनः प्रत्यक्षं किं वा परोक्षमित्यत्राह
आद्य परोक्षमपरं प्रत्यक्षं प्राहुराञ्जसम् । इति ।
"मतिश्रुतावधिमनः पर्ययकेवलानि ज्ञानम् ।" [ त० सू० १1९] इत्यत्र पाठापेक्षयाऽऽदौ भवत्वात् आद्ये मतिश्रुते ते प्राहुः प्रतिपादयन्ति सूत्रकारादयः । किम् ? परोक्षं प्रमाणम् । २५ परोक्षत्वञ्च तयोरिन्द्रियसन्निकर्षलिङ्गादिभिरुत्पाद्यमानत्वात् 'परैरुक्ष्यते सिच्यते इति परोक्षम्' इति व्यत्पत्तेः । अपरं ताभ्यामुत्तरम् अवधि मनः पर्ययकेवलभेदं ज्ञानं प्रत्यक्षं प्राहुः । प्रत्यक्षत्वमात्ममात्रापेक्षत्वात् अक्षमात्मानं प्रति गतं कारणत्वेनाश्रितं प्रत्यक्षम्' इति व्युत्पत्तेः । न चैवं मतिज्ञानादेरपि प्रत्यक्षत्वम् आत्ममात्रापेक्षस्यैव तत्त्वोपगमात् मत्यादौ च तदभावात् । तदिदमुभयमपि प्रमाणम् आञ्जसं न व्यवहारमात्रपरिकल्पितम्, ३० परमार्थतः प्रमाणस्याभावे कल्पनयापि तदसम्भवस्य निरूपितत्वात् । कथं तर्हि मतिज्ञान'स्यैवमवग्रहादिभेदस्य प्रत्यक्षत्वमुक्तम् । आत्ममात्रापेक्षत्वाभावादिति चेत् ? अत्राहकेवलं लोकबुद्धयैव मतेर्लक्षणसंग्रहः ||८८ || इति ।
१ सङ्केताभिला- आ०, ब०, प० । २ - लापिवि- श्रा०, ब०, प० । ३ - समर्थाप- श्रा०, ब०, प० । ४ - णस्य च त - प्रा०, ब०, प० । ५ - नस्यैवाव- श्रा०, ब०, प० ।