________________
न्यायविनिश्चयविवरणे
[ ३८९-९०
केवलम् आगमनिरपेक्षं' लोकस्य व्यवहर्तुः ' जनस्य बुद्धचैव मतेः अवग्रहादिज्ञानस्य लक्षणेन प्रत्यक्षोक्तेन सङग्रह इति । एतदुक्तं भवति - व्यवहर्तुं मतिज्ञानेऽपि लक्षणलेशदर्शनात् प्रत्यक्षप्रसिद्धेः तदनुरोधेन तदपि प्रत्यक्षतया सङ्गृहीतं न मुख्यतः । मुख्यतः पुनरवध्यादिज्ञानमेव प्रत्यक्षम् समग्रस्य स्पष्टतालक्षणस्य तत्रैव भावात् । एवमपि तथा५ विद्यालक्षणादेव प्रत्यक्षव्यपदेशात् किमात्ममात्राश्रितत्वेन कल्पनमिति चेत्; न; प्रवृत्ति'निमित्तवत् व्युत्पत्तिनिमित्तेनापि तत्र तद्भावनिवेदनार्थत्वात् तथातत्कल्पनस्य । ततः स्थितं केवलमित्यादि । कथमागमस्य परोक्षत्वमुक्तम् 'अनुमानं तथागमः' इति, तस्याज्ञानत्वात्, ज्ञानस्यैव चागमे परोक्षत्वकथनादिति चेत् ? अत्राह
१०
२०
श्रवणं शब्दविषयं प्रत्यक्षं तस्य कार्य यत् यथार्थमभिधेयज्ञानं तस्य हेतुत्वात् स्याद्वादो भगवत्प्रवचनं प्रमाणमुपचारात् न मुख्यतः । मुख्यतस्तज्जनितस्य ज्ञानस्यैव प्रामाण्याच्चक्षुरादिवत् । प्रसिद्धं हि चक्षुरादेरुपचारादेव प्रामाण्यं वस्तुतस्तज्जनितस्य ज्ञान - स्यैव रूपादौ प्रामाण्यात्' । तत्त्वत एव स्याद्वादे कुतो न प्रामाण्यमिति चेत्; न; मुख्यतो १५ ज्ञानप्रामाण्यस्यैव नैयायिकस्योपगमात् । प्रमित्तिहेतुत्वात्तु' प्रामाण्यमुपगम्यत एव उपचारस्याप्रतिक्षेपात् । तदेवाह -
२५
३६४
३०
स्याद्वादः श्रवणज्ञानहेतुत्वाच्चक्षुरादिवत् ।
प्रमा [ प्रमितिहेतुत्वात्प्रामाण्यमुपगम्यते ] || ८ || इति ।
प्रमितिहेतुत्वात्प्रामाण्यमुपगम्यते । इति । सुबोधमेतत् ।
न चैवं प्रमेयस्य तत्प्रतिषेधो युक्तः तस्यापि " अर्थवत्प्रमाणम्" [ न्यायभा० १|१|१] इत्यत्र तद्धेतुत्वेन व्याख्यानात्, न्यायोपस्थापितस्य वचनमात्रेण निषेधायोगात् । ततः स्थितं ज्ञानमेव प्रमाणमिति ।
किमिदानीं प्रमाणफलमित्याह
प्रमाणस्य फलं तत्त्वनिर्णयादानहानधीः । इति ।
1
:
आदानं च हानं च तयोर्धीः बुद्धिः आदानहानधीः उपलक्षणमिदम् तेनोपेक्षाधीरित्यपि प्रतिपत्तव्यम् । तत्वस्य जीवादेः निर्णयः संशयादिव्यवच्छेदरूपोऽधिगमः तेन सहादानहानधी: तत्त्वनिर्णयादानहानधीः सा प्रमाणस्य उक्तलक्षणस्य फलं प्रयोजनम् । तच्चाव्यवहितं " तत्त्वनिर्णयः, व्यवहितमादानहानबुद्धिः प्रमाणतस्तत्त्वनिर्णये पश्चाद्भावात्, तत्त्वनिर्णय एव प्रमाणं " प्रामाण्यं चेतसां स्वार्थव्यवसाय:" [
]
इति वचनात् । स एव कथं तस्य फलं भेदाभावेन तत्साध्यत्वाभावादिति चेत्; न; कथञ्चिद्भेदस्यापि भावात् । तथाहि न स्वनिर्णय एव प्रमाणम्, स्वपरिविभागादेरनिर्णयविषयेत्वेनाभावप्रसङ्गात् । अद्वैतस्य च प्रतिक्षेपात् । नापि परनिर्णय एव; स्वनिर्णयाभावे तस्याप्यनुपपत्तेः । उभयनिर्णये च सिद्धः स्वनिर्णयात्मनस्तस्य परनिर्णयात् तदात्मनश्च
१ - केवलस्य - श्रा०, ब०, प० । २ - हर्तुः ज्ञानस्य श्रा०, ब०, प० । ३ लक्षणे लेशश्रा०, ब०, प० । " प्रत्यक्ष मञ्जसा स्पष्टमिति प्रागुक्तस्पष्टत्वस्य । " - ता० टि० । ४ -तः पुनरविद्यादिज्ञाश्रा०, ब०, प० । ५ त्तिर्न निमित्तवदुत्पत्ति प्रा०, ब०, प० । ६ - ण्यात्तत एव श्रा०, ब०, प० । ७ - मिति नैया - आ०, ब०, प० । ८ वात्प्रामा श्रा० ब०, प० । ९ - पान चैवं श्रा०, ब०, प० । १० - हित निर्णयो आ०, ब०, प० ।