________________
३।१०] ३ प्रवचनप्रस्तावः
३६५ स्वनिर्णयाद्भेदोऽपीति युक्तं तत्साध्यतया निर्णयस्य तत्फलत्वम्। कथं पुनः सहभाविनः प्रमाणान्निर्णय इति चेत् ? प्रदीपात्तमोऽपहारः कथम् ? सत्येव तस्मिस्तद्भावादिति चेत् ; समानमन्यत्रापि । न च 'तत्सहभावनियमः, प्रमाणस्य प्रागपि भावात् । तदन्यदेवेति चेत् ; न; अभेदस्यापि प्रत्यभिज्ञानात् । आत्मन्येव तत्प्रत्यभिज्ञानं न प्रमाणे इति चेत् ; न; प्रमाणादन्यस्य तस्य प्रतिक्षेपात् । तहि निर्णयः फलं कथं तेन प्रमाणस्य व्यपदेशः “प्रमाणं स्वतो , निर्णयः” [ सिद्धिवि० परि० १ श्लो० २ ] इत्यादौ तनिष्पादनरूपेणैव तद्व्यपदेशोपपत्तेरिति चेत् ; सत्यम् ; शक्तिभेदेनैव क्षयोपशमापरनाम्ना प्रमाण'भावस्याभ्यनुज्ञानात् । निर्णयेन तु तद्भावकथनं तेनैवाव्यतिरेकेणाफलेन तद्भावो न निर्विकल्पनाधिगमेनेति ज्ञापनार्थम् । तेनापि तदवस्थितावतिप्रसङगः अकिञ्चित्करादावपि दर्शने तत्प्रसङगात् । तथा च व्यर्थमव्युत्पत्त्यादिव्यवच्छेदाय तत्र ज्ञानान्तरपरिकल्पनम् । अधिगमादपि तद्वयवच्छेदरूपादेव , तद्वयवस्थितिश्चत्; सिद्धस्तहि निर्णयादेवासौ, तादृगधिगमस्यैव निर्णयत्वात् । कथं पुनरेकस्यैव ज्ञानस्य प्रमाणफलभावेन भेदः ? सर्वस्यापि वस्तुनः स्वस्वभावव्यवस्थित्या निरंशस्यैवोपपत्तेः । सारूप्याधिगमे भेदेन क्वचित्तद्भावकल्पनं तु व्यावृत्तिभेदादेव न तत्त्वत इति 'चत् ; न; तद्भेदस्यापि क्वचित्तत्त्वतोभावेऽनेकान्तवादप्रत्युज्जीवनात् । तस्याप्यन्यतस्तद्भेदात् परिकल्पनायामनवस्थाप्रसङ्गात् । ततो दूरं गत्वापि तत्त्वत एव १५ व्यावृत्तिभेदमभ्युपगच्छता क्वचित्प्रमाणफलभावे तद्भेदोऽभ्युपगन्तव्यः प्रतीतिबलस्याविशेषात्। वस्तुतो निर्भेदमेव ज्ञानं स्वतोऽवभासते, ग्राह्यादिभेदस्तु तत्र विप्लवकृत इति चेत् ; न; विप्लवस्यापि विप्लवान्तराद्भेदप्रतिभासित्वेऽनवस्थादोषस्य दुष्परिहरत्वात् । स्वतस्तत् प्रतिभासित्वे तु न निर्भागज्ञान प्रतिष्ठानिष्ठितिः । अतो निराकृतमेतत्-"अविभागोऽपि बुद्धयात्मा" [प्र. वा० २।३५४ ] इत्यादि । तन्न अनेकान्तप्रद्वेषे सौत्रान्तिकादेः कल्पनयापि २० प्रमाणफलव्यवस्थापनमुपपन्नम् । भवतु तर्हि प्रमाणादिसकलविकल्पापरामृष्टमेव तत्त्वमिति चेत् ; न; तस्य प्रपञ्चतः प्रतिक्षिप्तत्वात् । ततः स्थितं तत्त्वनिर्णयः साक्षात्, आदानादिबुद्धिस्तु पारम्पर्येण फलं प्रमाणस्यति । परमपि तत्फलं दर्शयन्नाह
निःश्रेयसं परं प्रायः [केवलस्याप्युपेक्षणम् ॥६०॥ इति । २५ निःश्रेयसं कैवल्यं परं प्रकृष्टं पश्चिमं वा प्रमाणस्य फलमिति सम्बन्धः । सति हि प्रमाणतः तत्त्वनिर्णये मिथ्यादर्शनादिपरित्यागेन सम्यग्दर्शना द्यभ्यासत: प्रादुर्भवन्निःश्रेयसं परम्परया प्रमाणस्य फलमिति मन्यते, प्रायो बाहुल्येन तत्फलं सर्वत्राभावात् । सम्प्रति केवलज्ञानस्य फलं दर्शयति-केवलस्याप्युपेक्षणम् । इति । सकलद्रव्यपर्यायगोचरं निरतिशयं ज्ञानं केवलं तस्य उपेक्षणं सर्वत्रौदासीन्यं फलं तदपोहादिकफलान्तरस्या- ३० भावात् । अपिशब्दात् सर्वविषयो निर्णयश्च "अज्ञाननाशो वा सर्वस्यास्य स्वगोचरे" [ आप्तमी० श्लो० १०२ ] इति वचनात्, अज्ञाननाशस्य निर्णयरूपत्वात् ।
"सत्यं प्रमाणस्य निर्णीतिः फलं सा तु तत्कार्यत्वेन ततो भिन्नैव नानान्तरम्
१ तस्सहायनि- प्रा०, ब०, ५०। २ -माणाभाव- श्रा०, ब०, प० । ३ तद्भावो निर्विश्रा०, ब०, प०।४ चेत्तनत- ता०। ५-फलतभेदो- ता०। ६तु निर्भाग-श्रा० ब०, प० । ७-प्रतिष्ठानिष्ठितः प्रा०, ब०।-निष्ठतः प०। ८-नाभ्यासतः श्रा०, ब०, प०। ९ तदभ्युह्यादिकफता०। १० स्वत्वं प्रमा- श्रा०, ब०, प० ।