________________
३६६
न्यायविनिश्चयविवरणे
अत एवोक्तम् - "यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता" [ चेत्; अत्राह
[३।९१
] इति । इति
प्रत्यक्षं श्रुतविज्ञानहेतुरेव प्रसज्यते । इति ।
श्रुतमभिलापस्तन्मिश्रं विज्ञानं श्रुतविज्ञानं दध्योदनादिवद्वृत्तिः तस्य नीलमिद५ मित्यादिरूपस्य हेतुरेव कारणमेव प्रत्यक्षं निर्विकल्पदर्शनं प्रसज्यते न प्रमाणमित्येवकारः । तथाहि न तस्य स्वतः प्रामाण्यम्; अनिर्णयस्वभावत्वात् अकिञ्चित्करवत् । नापि निर्णयहेतुत्वात्; निर्णयस्य विकल्पत्वेनावस्तुविषयत्वात् । तज्जननात् प्रामाण्ये संशयादिजननादपि तत्प्रसङ्गात् । वस्तुविषय एव निर्णयः, व्यवहर्त्रा तद्विषयस्य वस्तुतयैवाध्यवसायादिति चेत्; किं पुनर्भवतो व्यवहर्त्तरि विश्वास: ? बाढम्, “प्रामाण्यं व्यवहारेण" [प्र० वा० १७ ] १० इति वचनादिति चेत्; तर्हि निर्णयस्यैव प्रामाण्यं स्याद् व्यवहर्तुस्तत्रैव तदभिप्रायात्, न निर्विकल्पदर्शनस्य तत्र तद्गन्धस्यापि व्यवहर्त्राना घ्राणात् । ततो निराकृतमेतत्" गृहीतग्रहणान्नेष्टं सांवृतं प्रमाणम्" [ प्र० वा० १।५ ] इति । यदि तत्प्रामाण्ये न तत्र विश्वासो नियत वस्तुविषयत्वेऽपि न भवेद' र्धजातीयानुपपत्तेः । कथं वा प्रत्यक्षं निर्णयस्य हेतुः विकल्पत्वात् ? अथ तद्वासनैव हेतुनिर्णयस्य प्रत्यक्षं तु केवलं तद्बोधकमिति १५ चेत्; नेदानीं प्रत्यक्षेण किञ्चित्, अर्थस्यैव चक्षुरादिकमभिपततस्तद्द्बोधकत्वोपपत्तेः अचेतनस्य कथं तद्बोधकत्वमिति चेत् ? कथं दर्शनहेतुत्वम् ? सामर्थ्यादिति समानमन्यत्र । तन्न प्रत्यक्षान्निर्णयसम्भवो यतस्तत्प्रमाणम् । संभवेऽपि मुख्यतः तस्यैव प्रामाण्यात्, प्रत्यक्षं सन्निकर्षादिवत्तस्य हेतुरेव न प्रमाणमिति स्थितम् ।
प्रमाणवन्नयानामप्य'धिगमहेतुत्वम् "प्रमाणनयेरधिगमः [ त० सू० १६ ] इति २० सूत्रे, कामतस्तेऽपि विप्रतिपत्तिनिरासेन निर्णेतव्या इति चेत्; अत्राह-
इष्टं तत्त्वमपेक्षातो नयानां नयचक्रतः ॥ ६१ ॥ इति ।
स्याद्वादप्रविवेचितार्थैकदेशगोचरः ' प्रतिपत्त्रभिप्रायो नयः । स च द्विधा अर्थनयः शब्दनयश्चेति । प्राच्यः पुनश्चतुर्धा नैगमः सङग्रहो व्यवहार ऋजुसूत्र इति । पश्चिमस्त्रेधाशब्दः समभिरूढः एवम्भूत इति । तत्र यस्मिन् द्वयोर्भेदगमनं स नैगमः नैकं गमो नैगमः इति २५ व्युत्पत्तेः, यथा गुणगुणिनौ क्रियातद्वन्तौ सामान्यविशेषौ च भिन्नाविति । सम्यक् एकत्वे सर्वग्रहणं सङ्ग्रहः, यथा सर्वमेकं सदविशेषादिति । सङ्ग्रह विषयस्य पुनर्व्यवहरणं विभजनं व्यवहारः, यथा यत्सत्तद्रव्यं गुणः कर्म" चेति । ऋजु प्रगुणं सूत्रणमृजुसूत्रः, यथा सर्व वर्त्तमानमात्रमेव न पूर्वं नापि पश्चादिति । कालादिभेदादर्थभेदकारी शब्दः । तत्र कालभेदात् अद्भवति भविष्यतीति कारकभेदात् वृक्षं पश्य, वृक्षाय जलं देहीति, लिङ्गभेदादर्धर्चमर्द्धर्चः ११ ३० इति । पर्यायभेदादर्थभेदकृत् समभिरूढः, यथा शक्तादेव शक्रो न पूरणात्, ततोऽपि पुरन्दर एव न शक्र इति । क्रियाश्रयस्त्वेवम्भूतः पुरं दारयन्नेव पुरन्दरो नान्यदेति । तदेतेषां सप्तविकल्पानामवान्तरविकल्पादनेकप्रकाराणां नयानाम् अपेक्षातः प्रतिपत्रोदासीन्य
१ - दिव वृत्तिः प्रा०, ब०, प० । समासः । २ निर्णये व्यव - श्र०, ब०, प० । ३ - यतोवस्तुविषयेपि ता० । ४ - दर्थजातीया - श्रा०, ब०, प० । ५ - त्वादर्थवद्वासन्नेव श्रा०, ब०, प० । ६ - मध्यभ्यधि- आ०, ब०, प० । ७ कालतस्ते आ०, ब०, प० । ८ - चरप्रति - श्रा०, ब०, प० । ९ - हनयस्य श्रा०, ब०, प० । १० कर्मेति चेति श्रा०, ब०, प० । ११ - दादर्थमर्धर्चः प- आ०, ब०, प० ।