________________
३।६२-६३ ]
३ प्रवचनप्रस्तावः
३६७
लक्षणयाऽपेक्षया तत्त्वं श्रुतविकल्पत्वेन प्रमाणत्वम् इष्टमभ्युपगतम्, अन्यथा दुर्नयत्वेन तदनुपपत्तेः । तच्च तेषां तत्त्वं विस्तरतो नयचक्रतः तन्नामधेयाच्चिरन्तनशास्त्रात् प्रतिपत्तव्यम् । तदेवं व्यवस्थापितप्रामाण्यस्य प्रवचनस्य शास्त्रान्ते प्रयोजनमाह-मिथ्यात्वं सौगतानां कणचरसमयं कापिलीयं प्रमेयं प्रागल्भ्यं शाबराणां जिनपतिविहिताशेषतत्त्वप्रकाशे । पर्याप्तत्वं व्यपोहन्नुपहसनमयं प्रस्तुवन्न्याय मार्गे स्याद्वादः सर्ववादप्रवणगुणगणः श्रेयसे नोऽस्तु नित्यम् ||२|| इति ।
५
अयमस्मिन्प्रस्तावे निरूपितः स्याद्वादो भगवत्प्रवचनं श्रेयसे नोऽस्तु नित्यम् । कीदृश: ? सर्वस्मिन् वादे प्रत्यक्षादिस्थानत्रयलक्षणे प्रवणं समग्रं गुणानां निर्दोषत्वादीनां गणः समूहो यस्मिन् स तथोक्तः । किं कुर्वन्निति चेत् ? उच्यते, सुगतस्येमे सौगताः तेषाम्, १० बहुवचनादन्येषामपि तादृशानां यन्मिथ्यात्वं सर्व स्वप्नादिवद्भ्रान्तमेत्र न तत्त्वतः किञ्चिदिति यश्च कणचरस्य वैशेषिकतन्त्रकृतः समयः परस्परव्यतिरिक्त द्रव्यगुणादिपदार्थोपदेशः, अक्षपादसम 'यस्यापृथग्वचनं कणच रसमयादविशेषात् । यदपि कापिलीयं कपिलशिष्याणां प्रमेयं व्यक्ताव्यक्तज्ञातृविकल्पम् यच्चापि शाबराणां प्रागल्भ्यं स्वतः प्रामाण्यादिपरिकल्पनपाटवं सर्वमेतद्व्यपोहन्नपाकुर्वन् इति । न केवलमिदमेव अपितु योऽसौ १५ जिनपतेः सम्बन्धी "विशेषेण हितो विनेयलोकस्याशेषाणां सूक्ष्मादिभेदानां तत्त्वानां प्रकाशस्तस्मिन् यदुपहसनम् - एवं यत्केवलज्ञानम् " - [ मी० श्लो० चो० श्लो० १४१] इत्यादिमीमांसकस्य, "तस्मादनुष्ठेयगतम् " [प्र० वा० १।३३] इत्यादि सौगतस्य तदपि व्यपो - हन्निति । किं कुर्वन् व्यपोहति ? न्यायमार्गे प्रत्यक्षादिरूपे पर्याप्तत्वं भावानां सौगतादिकल्पनाविपर्ययेण यत् परि समन्तात् आप्तत्वं तत्प्रस्तुवन् प्रकटयन्, अन्यथा तद्व्यपोहनानुप- २० पत्तेः । किं पुनस्तच्छ्रेयो यदर्थत्वं स्याद्वादस्याशास्यते इति चेत् ? सकलावरणपरिक्षयविजृम्भितं केवलज्ञानमेव । तदेवाह --
नैकान्तक्षायिकाणाम् [अतिशयमवदन्नैव नानार्थसाध्यम्, नैष्किञ्चन्यं तपो वाऽविगलितसकलक्लेशराशेर्विनाशे । निष्पर्यायं प्रवृत्त सकलविषयगं केवलं वेद नित्यम्,
योऽयं तस्मै नमामस्त्रिभुवनगुरवे शम्भवे शान्तये ते || ३ || इत्यादि । नैकान्तोऽनेकान्तः नशब्देन समासात् । अनेकान्तेनाऽनेकप्रकारेण क्षया एव कर्म्मणां क्षायिकाः स्वार्थिकत्वात्प्रत्ययस्य तेषाम् अतिशयं तारतम्यं अवदन्नैव प्रतिषेधद्वयेन विधिप्रतिपत्तेः । स एवातिशयः कुतः सिद्ध इति च ेत् ? तन्निबन्धनात् ' ज्ञानातिशयादेव । अस्ति चायम्-असहायेन्द्रियादारभ्य आशास्त्रविदः प्रतीयमानत्वात्, अतश्च तत्प्रतिपत्तिः । ३० अत एवाह - नानार्थसाध्यम् इति नाना चासावतिशयवत्त्वादर्थश्च प्रयोजनं ज्ञानलक्षणं नानार्थस्तेन साध्यमनुमेयं तेषामतिशय मवदन्नैवेत्यनेन ' हेतूक्तः (तुरुक्तः ) । साध्यं पुनरस्य
१ - क्षाधिष्ठान - आ०, ब०, प० । २ - तः कथञ्चिदिति आ०, ब०, प० । ३ -यस्य पृथआ०, ब०, प० । ४ - कल्पितेन श्रा०, ब०, प० । ५ विशेषहितो ता० । ६ - बन्धनज्ञानाति - श्रा०, ब०, प० । ७ - यवदन्येवे - आ०, ब०, प० । ८ हेत्युक्तः साध्यं ता० ।
२५