________________
न्यायविनिश्चयविवरणे
[ ३८४
1
क्वचित्तदतिशयस्य परिनिष्ठितत्वम् । तथा हि यदतिशयवत् तत् क्वचित्परिनिष्ठितं यथा परिमाणम्, अतिशयवांश्च कर्मणां क्षय इति । यत्र च तत्परिनिष्ठा तज्ज्ञानं सर्वविषयं भवति । तथाहि यद्यत्र व्यपगतावरणं ज्ञानं तस्य तद्ग्राह्यं यथा नीहाराद्यपगमे प्रत्यक्षस्य वृक्षादि, व्यपगतावरणं च कस्यचिद् ज्ञानं सर्वत्रेति । तदेवाह - अविगलितेत्यादि । ५ योऽयमेवमवदन्नैव वेद वेत्ति सकलविषयगं केवलं केवलज्ञानं नित्यमविनश्वरं निष्पर्यायमक्रमम् । उपलक्षणमिदं तेन निष्करणं निर्व्यवधानं च । कदा तत्प्रवृत्तम् ? अविगलितो यः सकलानां क्लेशानां कर्मतदास्रवरूपाणां राशिस्तस्य विनाशे प्रवृत्तम् । कुतस्तद्विनाशोऽपीति चेत् ? तपस एव । तदाह - नैष्किञ्चन्यं तपो वा इति । वेति समुच्चये । तपो हि बहिरन्तर्विकल्पं तद्विनाशोपायं योऽयं वेद । कीदृशम् ? नैष्किञ्चन्यम् । ननु तत्त्वज्ञान१० भावनं तपस्तत्कथं नैष्किञ्चन्यमिति चेत् ? न; सत्येव तस्मिन्निस्पृहत्वरूपे तदुपपत्तेः । अत एवोक्तम्
३६८
"समाधितन्त्र स्तदुपोहपत्तये, द्वयेन नैर्ग्रन्थ्यगुणेन चायुजम् ।" [
] इति । तस्मै योऽयं वेदेत्युक्ताय नमाम इत्यादि सुगमम् । चतुर्थी तु सर्वत्र " गल्हादिभिर्ब हुलम् " [ शाक० १।३।१३९ ] इति । ततः सूक्तम्
१५
२०
नैकान्तक्षायिकाणामतिशयमवदन्न व नानार्थसाध्यम्, नैष्किञ्चन्यं तपो वाऽविगलितसकल क्लेशराशेर्विनाशे । निष्पर्यायं प्रवृत्तं सकलविषयगं केवलं वेद नित्यम्, योऽयं तस्मै नमामस्त्रिभुवनगुरवे शम्भवे शान्तये ते || पुनरपि शासनस्याराध्यत्वं फलवत्त्वेन दर्शयन्नाह -
युक्तायुक्त परीक्षणक्षमधियामत्या दराराधिनाम्,
संसेव्यं परमार्थवेदसकलध्यानास्पदं शाश्वतम् । लोकालोककलावलोकन बल प्रज्ञागुणोद्भूतये
आभव्यादकलङ्कमङ्गलफलं जैनेश्वरं शासनम् ||१४|| इति ॥
२५
जिनेश्वरस्येदं जनेश्वरं शासनम् । कीदृशम् ? परमार्थस्य जीवादेर्यो वेदो बोधो यच्च सकलं धर्मशुक्लविकल्पं ध्यानं तयोरास्पदं शाश्वतं प्रबन्धतो नित्यम् । पुनरपि कीदृशम् ? अकलङकमङ्गलफल निर्दोषप्रशस्त विविधकल्पाभ्युदयप्रयोजनम् । आकुतस्तथेति चेत् ? आह- 'वूदभवस्य ( अभवस्य ) भाव अभव्यम् आ तस्मादाभव्यादा 'मुक्तिपदादिति । तत्किम् ? संसेव्यमभियोक्तव्यम् । केषाम् ? युक्तायुक्त परीक्षणक्षमधियाम् उपपन्नेतरवस्तुविचारपटुतरप्रज्ञानाम् । कीदृशानाम् ? अत्यादराराधिनां प्रशस्तश्रद्धया आराधनशीलानाम् । तत्तेषां किमर्थं संसेव्यम् ? अत्रोत्तरं लोकेत्यादि । लोकालोकयोः याः कला विविधविकल्पाः अणुप्रभृतिप्रतिपत्तिवेद्या भागाः तासामवलोकनं निरवशेषदर्शनं तत्र बल यस्य प्रज्ञागुणस्य तस्योद्भूतये इति ।
३०
१ परिणाममति - श्रा०, ब०, प० । २ – दविवेत्ति प्रा०, ब०, प० । ३ -दुपोपपत्तये श्रा०, ब०, प० । ४ धर्म्यशु श्र०, ब०, प० । ५ व्यादभवस्य भाव श्रभव्यमित्यपि पाठः । भव्यस्य श्रा०, ब०, प० । ६ - मुक्तिपादादि - ता० । ७ -नामव्यादरा - आ०, ब०, प० ।