________________
प्रवचनप्रस्ताव
३६९
श्रीमन्न्यायविनिश्चयस्तनुभृतां चेतोगुर्वीनलः,
सन्मार्ग प्रतिबोधयन्नपि च तानिःश्रेयसप्रापणम् । येनायं जगदेकवत्सलधिया लोकोत्तरं निर्मितो
देवस्तार्किकलोकमस्तकमणिभू यात्स वः श्रेयसे ॥१॥ विद्यानन्दमनन्तवीर्यसुखदं श्रीपूज्यपादं दया
पालं सन्मतिसागरं कनकसेनाराध्यमभ्युद्यमी । शुद्ध्यन्नीतिनरेन्द्रसेनमकलकं वादिराजं सदा,
श्रीमत्स्वामिसमन्तभद्रमतुलं वन्दे जिनेन्द्रं मुदा ॥२॥ भूयो भेदनयावगाहगहनं देवस्य यद्वाङ्मयं
कस्तद्विस्तरतो विविच्य वदितुं मन्दप्रभुर्मादृशः । स्थूलः कोऽपि नयस्तदुक्तिविषयो व्यक्तीकृतोऽयं मया,
स्थेयाच्चेतसि धीमतां मतिमलप्रक्षालनैकक्षमः॥३॥ व्याख्यानरत्नमालेयं प्रस्फुरन्नयदीप्तिभिः' ।
क्रियतां हृदि विद्वद्भिस्तुदन्ती मानसं तमः ॥४॥ श्रीमत्सिंहमहीपतेः परिषदि प्रख्यातवादोन्नति
स्तर्कन्यायतमोपहोदयगिरिः सारस्वतः श्रीनिधिः । शिष्यः श्रीमतिसागरस्य विदुषां पत्युस्तपःश्रीभृतां
भर्तु : सिंहपुरेश्वरो विजयते स्याद्वादविद्यापतिः ॥५॥ इत्याचार्यवर्यस्याद्वादविद्यापतिविरचितायां न्यायविनिश्चयतात्पर्यावद्योतिन्यां व्याख्यानरत्नमालायां तृतीयः प्रस्तावः समाप्तः ।
समाप्तं च शास्त्रम् । ॐ नमो वीतरागाय । ॐ नमः सिद्धेभ्यः ।
करकृतमपराधं क्षन्तुमर्हन्ति सन्तः ।
१-दीधितिः इत्यपि पाठः । २-स्वतं श्री-ता। ४७