________________
३८५] ३ प्रवचनप्रस्ताव
३६१ ___न हि अनुमानं वस्तुप्रतिपत्तये 'परैरभ्यनुज्ञानम् वस्तुनः सर्वात्मना प्रत्यक्षतः एवाधिगमात् । “तस्माद् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः ।" [प्र० वा० ३।४४ ] इति वचनात् । अपितु प्रत्यक्षेऽर्थे क्षणिकनिरंशस्वलक्षणे योऽन्यथारोपो नित्यादिविकल्पः तस्य व्यवच्छेदः तस्य प्रसिद्धये "भ्रान्त्या निश्चीयते नेति साधनं सम्प्रवर्तते ।" [प्र. वा० ३।४४ ] इत्यभिधानात् ।
भवत्येवं तथापि किमिति चत् ? उच्यते; लिङ्गादनुमानं सम्बन्धप्रतिपत्तौ। न च तत्र प्रत्यक्षस्य सामर्थ्यम् ; सन्निहितमात्रविषयत्वात्, साकल्येन च तत्प्रतिपत्तावनुमानो- - पपत्तिः, अन्यथाव्यभिचारसम्भवात् । सकलविषयमेव योगिप्रत्यक्षमिति चेत्, न; तस्यापि विषयकार्यत्वेन कारण' एव प्रवृत्तेः । कारणमेव तस्य सर्वमिति चेत्; तर्हि तत्समदेशकालमेव सकलमपि जगत्तत्कार्य भवेत्, एकसामग्रयधीनत्वात्, अन्यथा रूपादिकमपि तथा १० न भवेदिति न रसदेशादौ रूपादेरनुमानं भवेत् । सत्यपि ततस्तत्प्रतिपत्तिरसत्कल्पैव निर्विचारत्वात्, क्षणभङगादिवदिति न ततोऽनुमानमुपपन्नम् । नापि मानसप्रत्यक्षतस्तप्रतिपत्तिः; ततः स्वरूपवेदविकलादर्थज्ञप्तेरेव "विमुखज्ञान" इत्यादिना' प्रतिक्षिप्तत्वात् । एतदेवाह-अतो हेतुव्यवच्छेदेऽनवस्थितिः इति ।।
___ भावप्रधानमत्र हेतुपदम् । हेतोर्हेतुत्वस्य साध्यसम्बन्धस्य अतः प्रकृतात्प्रत्यक्षात्, १५ व्यवच्छेदे विशेषेण साकल्यलक्षणेनावच्छेदोऽवबोधः 'तस्मिन् अवस्थितेरुत्पत्तेरभावोऽनवस्थितिः अनुमानस्येति विभक्तिपरिणामेन सम्बन्धः। भवत्वनुमानादेव तद्वयवच्छेद इति चेत् ; न; तत्रापि तदतद्विकल्पात्तदभ्युपगमेऽनवस्थितेरेव दोषात् । तदाह-अत इत्यादि । अतः प्रकृतादनुमानात्-'तस्मादेव तद्वयवच्छेदेऽनुमानम्, अनुमानाच्च तद्व्यवच्छेदः' इति परस्पराश्रयादनवस्थितिः, उभयोरप्यप्रतिष्ठानात् । अन्यतस्तद्व यवच्छेदे तत्राप्यन्यतस्तद्व्य- २० वच्छेद इत्यनवधेरनुमानपरम्परायाः प्राप्तेः ततोऽन्यदेव तत्र प्रमाणमभ्यनुज्ञातव्यम् । तदाहअत इत्यादि । अतः आभ्यां प्रत्यक्षानुमानाभ्याम् अहेतुव्यवच्छेदे हेतुव्यवच्छेदाभावे नवस्य प्रत्यग्रस्य सम्बन्धप्रतिपत्तिनिबन्धनस्य प्रमाणस्य स्थितिः अविचलनम्। न च तत्ताभिधानं प्रत्यक्षमव; विचारकत्वात्, प्रत्यक्षस्य च विपर्ययात् । नानुमानमपि; अलिङ्गजत्वात् । अतस्ताभ्यामन्यदेव प्रमाणं निरूपित स्मरणवत् । ततः प्रतिषिद्धमिदम्-"न प्रत्यक्षानुमान- २५ व्यतिरिक्तं प्रमाणम्" [
] इति; स्मरणतर्कयोस्तद्व्यतिरिक्तयोरेवं' प्रमाणत्वात् ।
साम्प्रतमुपमानस्य प्रत्यभिज्ञाविशेषत्वेन प्रमाणान्तरत्व मपाचिकीर्षुस्तदेव तावत्परपरिकल्पनया दर्शयति
___उपमानं प्रसिद्धार्थसाधर्म्यात्साध्यसाधनम् ॥८॥ इति ।।
गोदर्शनाहितसंस्कारस्याटव्यां पर्यटतः प्रसिद्धोऽर्थो गवयः तस्य साधर्म्य सादृश्यं ततो गवानुस्मरणसहायात् साध्यस्य सादृश्यविशिष्टस्य गोः, तद्विशिष्टस्य वा सादृश्यस्य यत्
३०
१ "बौद्धैः- ता० टि०। २ "नाकारणं विषयः इति सौगतैरुक्तत्वात्"- ता० टि० । ३ "प्रत्यक्षात् चणभङ्गादिप्रतिपत्तियथा- ता.टि० ।४ न्यायवि० श्लो० १११९ । ५ "प्रत्यक्षात् साध्यसम्बन्धस्यावबोधे सौगतैरङ्गीक्रियमाणे इत्यर्थः।"- ता० टि०। ६-पितं स्मर- पा०, ब०, प० । ७ -रेव प्रमाण-पा०, ब०, प० । ८-मुपाचि-पा०, ब०, प० । ६ -कल्पनाया श्रा०, ब०, प० । न्यायसू० ११११६ ।