________________
न्यायविनिश्चयविवरणे
[३८४-८५ प्रमाण मिति विभक्तिपरिणामाल्लब्धं ज्ञानमिति च वक्ष्यमाणमत्रापि सम्बध्यते । ततो यत्प्रमाणं तद् ज्ञानम् अन्यथा तदनुपपत्तेरित्युक्तं भवति । द्विचन्द्रादिज्ञानस्यापि प्रामाण्यप्रसङ्गे तन्निवृत्त्यर्थम् अविप्लवग्रहणम् । 'व्यवहारत एव केवलमविप्लवत्वं वस्तुतः सर्व
ज्ञानानां स्वप्नादिवत्सविप्लवत्वात्' इत्यस्य व्युदासार्थम् अञ्जसा ग्रहणम् । वस्तुतः ५ क्वचिदप्यविप्लवाभावे । सर्वज्ञानविप्लवस्यापि दुरुपपादत्वेन निरूपितत्वात् । तच्च प्रमाणं
द्विविधं प्रत्यक्षं परोक्षमिति । प्रत्यक्षं स्पष्टं परिस्फुटम् । तदपि द्विविधम्-मुख्यसंव्यवहारविकल्पात् । मुख्यमप्यवधिमनःपर्ययकेवलभेदात् त्रिविधम् । व्यावहारिकमपि द्विविधम्-इन्द्रियप्रत्यक्षमनिन्द्रियप्रत्यक्षमिति च निरूपितरूपम् । अन्यदिति परोक्षम् । तत्कीदृशम् ? श्रुतं अस्पष्टोल्लेखम् । "श्रुतमस्पष्टतर्कणम्" [त० श्लो० पृ० २३७] इति वचनात् । तच्च प्रत्यभिज्ञादौ स्मरणादौ । प्रत्यभिज्ञापदेन तत्कारणत्वेन स्मरणस्याभिधानात् । प्रकीर्ण प्रक्षिप्तं न बहिर्भूतम्, उपमानादेरपि तद्बहिर्भावे परपरिकल्पितप्रमाणसङख्यानियमाभावस्य निरूपणात् । ततो द्वे एव प्रत्यक्षपरोक्षरूपे प्रमाणे इति सङग्रहः सङक्षेपतः प्रतिपत्तिः शास्त्रार्थस्य ।
सम्प्रति परोक्षविकल्पानां प्रागुपवर्णितमपि प्रामाण्यमनुस्मरणार्थ पुनरुपदिदर्शयिषुः प्रथमं तदाद्यत्वात् स्मरणज्ञानस्योपदर्शयति
इदमेवमिति ज्ञानं गृहीतग्रहणेऽपि नः । इति । द्विविधं च स्मरणम् ‘इदमेवम्' इत्येकम्, 'एवम्' इति च द्वितीयम् । तदुभयम् ‘इदमेवम्' इत्युच्यते, परस्याप्येवम्पदस्य समानश्रुतिकत्वेनैकोच्चारणगम्यस्यात्र भावात् । तत्र यदवग्रहादेरक्षज्ञानस्यानन्तरमर्थाभिलापस्मरणेन 'नीलमिदं पीतमिदम्' इत्याकारं ज्ञानं तदिदमेवमिति स्मरणम् । तदस्माकं प्रमाणमविसंवादात् प्रत्यक्षवत् । अपूर्वार्थाभावान्नेति चेत् ; न; प्रत्यक्षगृहीतस्य तेन ग्रहणेऽपि कथञ्चिदपूर्वार्थत्वात् शब्द संसृष्टत्वस्यागृहीतस्यैव प्रतिपत्तेः । प्रत्यक्षविषयस्य क्षणिकत्वेनापक्रमात् कथं तस्यैव पुनस्तत्संसृष्टत्वेन ग्रहण मिति चेत् ? न; एकान्ततः क्षणिकत्वस्य प्रतिक्षिप्तत्वात् । कथञ्चिदक्षणिकत्वेऽपि पूर्वाकारस्यातीतत्वेनाग्रहणात् । कथं तस्यैव पुनर्विशिष्टस्य ग्रहणमिति चेत्, न; शक्तिविशेषे क्षयोपशमलक्षणे 'सत्यतीतत्वादेरकिञ्चित्करत्वात् । क्षणिकत्वेऽपि भावानां कथमस्याप्रामाण्यम् ? अस्वलक्षणविषयत्वादिति चेत् ; अनुमानस्यापि स्यात् । स्वलक्षणप्रतिबन्धान्नेति चेत् ; न; अत्रापि तुल्यत्वात्, पारम्पर्येण स्वलक्षणादुत्पत्तेरविशेषात् । ततोऽवश्यं प्रमाणयितव्यं व्यवहारसिद्धत्वाच्च । अन्यथा “प्रामाण्यं व्यवहारेण" [प्र० वा० १७ ] इत्यसङ्गतं स्यात् ।
तथा यदेवमिति ज्ञानमतीतमात्रस्मरणं तदपि प्रमाणं तद्वदेवाविसंवादात् । गृहीतग्राहित्वान्नेति ...चेत; अनुमानं कथम् ? समारोपव्यवच्छेदादिति चेत् ; न; स्मरणादप्यदर्शनसमारोप३० व्यवच्छेदेन व्यवहारप्रसिद्धः । ततो युक्तं तस्यापि प्रामाण्यं कथञ्चिदपूर्वार्थत्वस्यापि भावात, - सन्निहिततया हि तद्ग्रहणमक्षज्ञानेन अतीततया च स्मरणेनेति । " साम्प्रतं तर्कस्य प्रामाण्यं दर्शयितुमाह
प्रत्यक्षेऽर्थेऽन्यथारोपव्यवच्छेदप्रसिद्धये ॥४॥
अनुमानम् [ अतो हेतुव्यवच्छेदेऽनवस्थितिः] इति । १-णमितीति प्रा०, ब०, प० । २-दविप्लवा- प्रा०, ब०, प० । ३ -मतिपूर्व श्रुतं प्रोक्तमविस्पष्टार्थतर्कणम् । -त० सा० श्लो० ४५। ४-वे परिक- प्रा०, ब०, ५०। ५-कारं तदि-प्रा०, ब०, प०।६-संस्पृष्टत्व- प्रा०, ब०, प० । ७ सत्यभीत-पा०, ब०,प० ।
24