________________
१५
३०८१-८३]
३ प्रवचनप्रस्तावः एतेषां केवल शब्दात् प्राप्तानामनुपदेशादीनां सङ्घात एव तीर्थकृतां दुरवगाहतदर्थदर्शनसाधने हेतुः न प्रत्येकम् । कस्मात् ? प्रत्येकतद्विशिष्टस्य प्रणयनस्य अन्यत्र तद्दर्शनविकलेऽपि सम्भवात् । तथा हि-अनुपदेशे लिङ्गात्, तदभावे चान्वयादेः प्रतिपद्य प्रणयनमसर्वदशिन्यपि सम्भवति । ततः सङ्घात एव तेषां तत्साधने हेतुः, 'तच्च तत्त्वदर्शनं भगवतां स्वत एव, नार्थान्तरदर्शनसम्बन्धात्,' आकाशादेरपि' ततः तत्प्रसङ्गादविशेषात् । स्वतोऽपि ५ न निर्विकल्पात् ; ततः प्रणयनानुपपत्तेः, अतः स्वत इति निर्णयस्वभावादित्यर्थः । तत्स्वभावत्वं चाहतामेव । ततो न सुगतादीनां प्रणेतृत्वं तदभावात् । तत्र च दोषमाह---
___ एवं हि सुगतादिभ्यो वरमीक्षणिकादयः ॥८१॥ इति ।
एवम् अतत्त्वदर्शित्वादप्रणेतृत्वे हि स्फुटं सुगतादिभ्यः आदिपदात् कपिलादिभ्यश्च वरमोक्षणिकादयः तैः परचित्तादेरुपलक्षणादुपदेशाच्च, इतरेषां तदभावात् । अर्हतामपि किं १० तत्त्वदर्शित्वकल्पनया शास्त्रादेवानुष्ठेयार्थप्रतिपत्तेः, तस्य च संवादादेव प्रामाण्यावगमात्, संवादस्य च प्रत्यक्षादिविषयवत्तृतीयस्थानसङक्रान्तेऽपि तदेकदेशत्वेन प्रतिपत्तेः । तत्त्वदर्शिबलात् तत्र 'प्रामाण्यावगमे परस्पराश्रयात्-तदवगमात् तत्त्वदर्शी सिद्धः, ततोऽपि तदवगम इति । ततो निष्फलं तत्कल्पनमिति चेत्; अत्राह
शास्त्रं तल्लक्षणव्याप्तं सर्वज्ञादेरवाधनात् । इति ।
शास्त्रं हि सर्वज्ञादेव आदेर्मूलकारणात् तस्यापौरुषेयस्य प्रत्याख्यानात् । पौरुषेयमपि तत्तत एव । कीदृशम् ? तस्य शास्त्रस्य लक्षणं स्वार्थप्रत्यायनं तेन व्याप्तं क्रोडीकृतम् । न हि तद्वयाप्तिस्तस्य स्वत एव सम्भवति व्याख्यात्रपेक्षानियमात् । भवतु व्याख्याताऽस्मदादिरेव न सर्वज्ञः तस्य बाधनादिति चेत् ; न; असर्वविदा ज्ञानेन तस्य देशकालसाकल्येन बाधस्यासम्भवात् । सर्वविदा च तस्यैव प्रसाधनात् । अस्मदादेश्च स्वतस्तत्त्वदर्शनविकलस्य २० व्याख्याने न प्रेक्षावतां प्रत्ययो म्लेच्छादिव्याख्यानवत् । व्याख्याभेदसम्भवे च कुतोऽयमेवार्थः पुरुषहितो नापर इति निर्णयः ? यतस्तत्परिहारेण हित एव प्रवृत्तिः स्यात् । सर्वदर्शिनस्तु व्याख्याने स्यात्, तेन हितेतरविभागेन सर्वस्यापि साक्षात्करणात् । तदाह- ..
अपौरुषेयवृत्तान्तोऽप्यत एव विरुद्धयते ॥२॥ इति । अपौरुषेयः पुरुषहितादन्यः तदहितः तस्य वृत्तान्तो धात्वर्थोऽस्मदादिभेदविकल्पनया २५ शास्त्रार्थत्वेन कथनम् । सोऽपि न केवलमस्वार्थप्रतिपादनमेव । अत एव सर्वज्ञादेरेव विरुद्धयते व्यपोह्यते। ततो युक्तं भगवति सर्वज्ञत्वपरिकल्पनम् , असति तस्मिन् शास्त्रस्य तल्लक्षण'व्याप्त्याद्ययोगात् । संवादस्यैव दुरवग्रहत्वात्, असत्यार्थव्यवच्छेदस्य चानुपपत्तेः तत्कल्पनाया वैफल्याभावात् । सम्प्रति शास्त्रार्थमुपसंहरन्नाह
प्रत्यक्षमञ्जसा स्पष्टमन्यच्छु तमविप्लवम् । प्रकीर्ण प्रत्यभिज्ञादौ प्रमाणे इति संग्रहः ॥८३॥ इति ।
१ -शब्दप्राप्ता-पा०, ब०, प० । २ -कं तस्मात् आ०, ब०, प० । ३ तच तद्वदर्शनं प्रा०, ब०, प.। ४ "योगाभ्युपगतात्" -ता०टि०। ५-पि तत्प्रस- श्रा०, ब०, प०। ६ प्रामाण्योपगमे प्रा.ब०, प०।७ धात्वर्थास्मदादिभेद-ता०। ८ "सर्वज्ञाख्यमूलकारणादेव' -ता. टि०।९ च्याप्स्ययोगात् श्रा०, ब०, प० ।