________________
३५८
न्यायविनिश्चयविवरणे
तत्राभाव इति न पुनरुच्यते । तत्परिक्षयनिबन्धनत्वादेव तस्य करणक्रमव्यवधानातिवर्त्तित्वेन केवलत्वमपि प्रत्येयम्, तदनतिवर्तिनि तत्परिक्षयस्यास्मदादिवदसम्भवात् । अत इदमुक्तम्अक्षानपेक्षणात् इति । अक्षाणामिन्द्रियाणाम् । उपलक्षणमिदम्, तेन देशकालपरिपाटीलक्षणस्य क्रमस्य देशकालस्वभावतिरोधानलक्षणस्य व्यवधानस्य चानपेक्षणादिति प्रत्येयम् । तेषा५ मनपेक्षणं च तदतिक्रमेण प्रवृत्तिरेव । अक्षापेक्षमेव साक्षात्करणमस्मदादौ प्रतिपन्नम्, तत्कथं तदनपेक्षायामिति चेत् ? न; अस्मदादावपि' मलविश्लेषविशेषादेव सत्यस्वप्नादौ तत्प्रतिपत्तेः । यद्येवं जाग्रतोऽपि किं तत्रापेक्षयेति चेत् ? तत्रैव गोलकादिरूपे साक्षात्कियाहेतोर्मलापगमविशेषस्य भावात् न पुनः तस्यैव तद्धेतुत्वात् । उक्तं चैतत् -" कथञ्चित्स्वप्रदेशेषु" इत्यादिना । तत्र तद्धेतुत्वव्यवहारश्चोपचारात् । ततो युक्तं भगवतस्तदनपेक्षमेव तदर्थ साक्षा१० त्करणम्, ततश्च प्रवचनबलात् तदर्थवेदिनो गणधरदेवादेश्च विशेष इति ।
1
सकलावरण परिक्षाविर्भूतमपि कथं तदशेषविषयमिति चेत् ? अत्राह - ज्ञस्यावरण विच्छेदे ज्ञेयं किमवशिष्यते । इति ।
ज्ञस्य सकलस्वपरविषयपरिज्ञानस्वभावस्य अन्यथा व्याप्तिज्ञानासम्भवेनानुमानाभावप्रसङ्गात्, ज्ञेयं साक्षाद्वेद्यं किं नाम अवशिष्यते न किञ्चित् सर्वमपि तस्य साक्षात्कर्तव्य१५ मेव । न चैवमतिप्रसङ्गः, सकलबोधावरणविश्लेष एव तदनवशेषत्वसम्भवात् । अत एवोक्तम् आवरणविच्छेदे इति । यद्येवमशुचिरसादेरपि साक्षात्करणात् तस्य तद्भक्षणादिदोषः स्यादिति चेत् सत्यम्, यदीन्द्रियप्राप्तस्य साक्षात्करणम्, न चैवम्, भगवतोऽक्षानपेक्षदर्शनत्वात् । तदाह
२०
[३७६-८१
२५
अप्राप्यकारिणः [तस्मात् सर्वार्थानवलोकते ] ||७६ || इति ।
इन्द्रियेण विषयमप्राप्य करोति निश्चिनोतीत्येवं शीलस्येत्यर्थः । सम्प्रत्युपसंहरतितस्मात् सर्वार्थानवलोकते । इति ।
सुबोधमेतत् । 'सर्वार्थावलोकनमेव दर्शयन्नाह
शास्त्रे दुरवगाहार्थतत्त्वं दृष्टं हि केवलम् । ज्योतिर्ज्ञानादिवत्सर्वं स्वत एव प्रणेतृभिः ||८०|| इति ।
शास्त्रे प्रवचने यदभिधेयत्वेनावस्थितं प्राकृतप्रज्ञैर्दुरवबोधत्वाद् दुरवगाहमर्थानां सूक्ष्मान्तरितदूराणां तत्त्वम् आत्मीयं रूपं तत्सर्वं निरवशेषं दृष्टं हि दृष्टमेव । हिरवधारणे । कै: ? प्रणेतृभिः तच्छास्त्रकारैः । कथं प्रणेतृभिः ? केवलम् उपदेशाद्यनपेक्षं ज्योतिर्ज्ञानं ज्योतिःशास्त्रम् आदिशब्दादायुर्वेदादि तत्रेव तद्वत् । यथा ज्योतिःशास्त्रादौ तत्तत्वं दृष्टं तैः तद्दर्शनस्य समर्थितत्वात् तद्वदन्यदपि सर्वं ततैर्दृष्टमेव, अन्यथा तद्विषयानुपदेशालिङ्गा३० नन्वयव्यतिरेकाविसंवादिशास्त्रप्रणयनानुपपत्तेः ।
अनुपदेशादय: प्रणयनविशेषणत्वेन संहता' एव कस्माद्धेतवः, न प्रत्येकमपि ? इति चेत्; अत्राह
संघातो हेतुरेतेषां पृथगन्यत्र सम्भवात् । इति ।
१ - पि तु मल- आ०, ब०, प० । २ - न्यायवि० भा० २ पृ० २२२ । ३ - ना न तत्र तखे तुल्यव्यव - प्रा०, ब०, प० । ४ सर्वार्थानवलो- आ०, ब०, प० । ५ - ता एकस्माद्धेतवो प्रा०, ब०, प० ।