________________
३७७-७८] ३प्रवचनप्रस्ताव:
३५७ न च तत्प्रभवत्वमुत्पत्तिसमये शक्यावसायम्, तदानीं तद्गर्भत्वाऽतद्गर्भत्वयोरविवेचनात् । प्रवृत्तितः शक्यावसायमेव तदिति चेत्, न; दोषाशङ्कायां प्रवृत्तेरेवासम्भवात् । तन्न प्रत्यक्षं निःशङ्कम् । एवमनुमानमपि । तस्यासम्भवाच्च । नहि निःशङ्कप्रत्यक्षस्याभावे ततः सम्बन्धप्रतिपत्तिः, यतोऽनुमानं सम्भवेत् । सत्यपि तस्मिन् कथं ततः साकल्येन तत्प्रतिपत्तिः ? तस्य सन्निहितवस्तुमात्रविषयत्वात् । अनुमानतस्तत्प्रतिपत्तावनवस्थापत्तेः। प्रादेशिक- ५ तत्प्रतिपत्तेश्च व्यभिचारेणानुमानकारणत्वायोगादिति चेत्; सत्यम् ; अयमपि परस्य पर्यनयोगः । तन्न प्रत्यक्षानुमानयोनिरारेकर प्रामाण्यं वस्तु प्रतिबन्धनिश्चयाभावात् । एवमेतत्, तथापि व्यवहर्तृ जनाभिप्रायेणा'विसंवादात्तयोः प्रामाण्यमभ्यनुज्ञायते । अन्यथा सकलव्यवहारविलोपप्रसङ्गादिति चेत् ; प्रवचनस्यापि तथैव तदभ्यनुज्ञातव्यम्, तदभावेऽपि तदर्थानुष्ठानादिव्यवहारस्याभावप्रसङगात् । तन्न व्यवहारतोऽपि प्रमाणद्वैविध्यकल्पन- १० मुपपन्नं तदन्तरस्यापि भावात् । तहि प्रवचनवत् प्रत्यक्षानुमानयोरपि तन्मा भूत्, संविदद्वैतस्यैव पारमार्थिकस्य प्रमाणस्य भावादिति चेत् ; तस्यापि कथं प्रामाण्यम् ? स्वरूपप्रकाशनस्य गुणस्य दर्शनादिति चेत्, प्रवचनस्यापि स्यात्, तत्रापि “सत्यचतुष्टयप्रकाशनस्य तस्य दर्शनात् । प्रत्यागमेन व्यभिचार इति चेत् ; भवतोऽपि भेदप्रकाशेन कस्मान्न भवति ? तत्र विचारासहत्वदोषस्य भावात् । तस्य चाद्वैतसंवित्तावदर्शनादिति चेत् ; समानमितरत्रापि । १५ ततः स्वसंवेदनं प्रमाणयता प्रवचनमपि प्रमाणमभ्युपगन्तव्यमविशेषात् । एतदेवाह
प्रत्यक्षागमयोरिष्टं प्रामाण्यं गुणदोषयोः ।
उपलब्ध्यनुपलब्धिभ्यां क्वचिद्वृत्तसमत्वतः ॥७७॥ इति । क्वचित् विषययोरद्वैतचतु:सत्ययोः यथाक्रम प्रत्यक्षागमयोः स्वसंवेदनप्रवचनयोः प्रामाण्यमिष्टं अभ्युपगतम्। तदिच्छाया निष्पन्नत्वेनाशक्यचालनत्वज्ञापनार्थ निष्ठायां २० निर्देशः । कुतस्तदिष्टम् ? वृत्तसमत्वतः वृत्तम् अनन्तरव्यावर्णितं यत्प्रत्यक्षागमयोः समत्वं सादृश्यं तत इति । तदेव कुतः ? इति चेत् ; गुणदोषयोः उपलब्ध्यनुपलब्धिभ्यामिति, व्याख्यातमिदं पातनिकयैव । तदेवं प्रवचनस्य प्रामाण्ये यत्सिद्धं तदाह
तथा साक्षात्कृताशेषशास्त्रार्थोऽतानपेक्षणात् ।
सद्वत्तकेवलज्ञानः सर्वज्ञः सम्प्रतीयते ॥७८॥ तथा तेन प्रवचनप्रामाण्यप्रकारेण तस्य प्रणेता सर्वज्ञः सकलवेदी सम्प्रतीयते प्रणेतः सर्वज्ञत्वाभावे तत्प्रामाण्यानुपपत्तेः निरूपणात् । कीदृशोऽसौ सर्वज्ञः इति चेत् ? 'स्यादेवं यदि नियतार्थमेव प्रवचनम्, न चैवम्, तस्यापि प्रत्यक्षानुमेयात्यन्तपरोक्षलक्षणस्थानत्रयपरिवर्तिपदार्थजातविषयत्वेनाशेष गोचरत्वात् तज्ज्ञानादेव सर्वज्ञत्वोपपत्तेः। यद्येवं छद्मस्थादर्हतः को विशेषः ? तस्याप्यागमतो सर्वज्ञत्वसम्भवादिति चेत् ; सर्वविषयसाक्षात्करणमेव । ३० अतएवोक्तं साक्षात्कृताशेषशास्त्रार्थः इति। अशेषस्य शास्त्रार्थस्य साक्षात्करणं भगवत्येव, . सकलावरणपरिक्षयस्य तन्निबन्धनस्य तत्रैव भावात् न छद्मस्थे विपर्ययात् । निरूपितश्च तस्य
१-त्वात्तद्गर्भत्वयो-पा०, ब० प० । २ प्रवृत्तिः शम्या-पा० ब०, प० । ३ -रेकप्रामा-पा०, ब०, प०।४ वस्तुनिश्च -प्रा०, १०, प०। ५-येण वि-प्रा०, ब०, प०।६-दाभिसंज्ञातयोः श्रा० ब० प०।७प्रवचनस्य । ८ दुःखसत्यम्, समुदयसत्यम, निरोधसत्यम्, मार्गसत्यमिति सत्यचतुष्टयम् । ६ स्यादेवं प्रश्नः । १० -पदोषगो- श्रा०, ब०, प० । ११ "विशेष इति सम्बन्धः" -ता०दि ।