________________
न्यायविनिश्चयविवरणे
[ ३७५-७६
आत्मा पुरुषः अस्य वचनस्य सम्बन्धी कर्तृत्वेनायं प्रवक्ता प्रकर्षेणातीन्द्रियज्ञानवैराग्यादिरूपेण वक्ता, न तद्विपर्ययेण । कुत एतत् ? अपरालीढसत्यथो न परैः सौगतादिभिः दोषोक्तिजिह्वया आलीढ आस्वादितः सत्पथः सम्यग्दर्शनादिरूपः सन्मार्गों यस्य सः अपरालीढसत्वयो यत एवमतः प्रवक्तेति । नहि सम्यग्दर्शनादिकं स्वर्गापवर्गादि५ निरवशेषपुरुषार्थ प्राप्त्युपायतया सत्पथव्यपदेशम् अनन्यगोचरम् अखिला परतीर्थकर परिकल्पितदोषप्रवादेः स्वरूपतो विषयतः परतश्च दुरुपपीडं प्रत्यासन्ननिष्ठभव्य निकायसंसारदुःखनिस्तरणकारणमादिशतः पुरुषोत्तमस्य प्रकर्षविपर्ययेण प्रवक्तृत्वकल्पनमुपपन्नम्, तद्विपर्यये तद्वचने प्रवृत्तेरेवासम्भवात् । तदेवाह-
नात्यक्षं यदि जानाति नोपदेष्टु' प्रवर्त्तते || ७५ || इति ।
अत्यक्ष मतीन्द्रियं चेत् न जानाति, उपलक्षणमिदम् तेन वैराग्यातिशयवानपि न भवति नोपदेष्टुम् उक्तरूपं सत्पथमभिधातुं प्रवर्त्तते अत्यक्षज्ञानादिविकलस्य तदुपदेशशक्त्यसम्भवात् बालकादिवदिति भावः । द्वितीयशङ्कायामप्याह
१०
१५
परीक्षां प्रसिद्धप्रत्यक्षादिरूपां क्षम इति परीक्षाक्षमः, स चासौ वाक्यस्य प्रवचनस्य अर्थो जीवादिः तेन परि समन्तात् स्वविषये निष्ठितं निराबाधस्थितं चेतः तदर्थज्ञानं येषां भगवतां ते तथोक्ताः । नहि तेषां जीवादितत्त्वज्ञानमन्तरेण तत्प्रणीतस्य वाक्यस्य परीक्षाक्षम' तत्त्वप्रणयनमुपपन्नं बालोन्मत्तादिवाक्यवत् । अस्ति च तत् । ततस्तदेव ' तेषां तज्ज्ञानं परिनिष्ठापयति' । सति च तज्ज्ञाने 'तेषां निर्दोषा एव [ते] । यत्र तद्विरुद्धं तत्र तन्नास्ति यथोष्णस्पर्शवति शीतम् अस्ति च भगवत्सु दोषविरुद्धं तत्त्वज्ञानमिति स्वभावविरुद्धोपलब्ध्या तथैव निर्णयात् । तेषां च परीक्षाशक्ये विषये स्वयमदृष्टस्यापि विप्रलम्भदोषस्याशङ्कायां मित्र विप्रलम्भनमस्ति उत नेति संशीतौ अन्यत्र प्रत्यक्षादावपि प्रसज्यते तदाशङ्केति विभक्तिव्यत्ययेन सम्बन्धः । तथा हि पुरोवस्थितं जलमवलोकयतोSपि कुतो निःशङ्कत्वम् ? न तावदुपलम्भादेव तस्य विप्रलम्भनोऽपि सम्भवात् स्वप्नादिवत् । २५ नापि संवादात्; उत्पत्तिसमय एव तस्यानवसायात् । अवसायेऽपि विसंवादस्यापि दैव तद्भावान्न तद्वतो दर्शनात् कस्यचिदपि प्रवृत्तिः स्यात् । प्रवृत्तितः तदवसाय इति चेत्; न; तदभावे ततः प्रवृत्तेरेवायोगात् आगमवत् । प्रत्यक्षादेरनवसितसंवादादपि प्रवृत्तिः बहुवित्तव्ययपरिक्लेशाभावात् नागमतो विपर्ययादिति च ेत्; न; प्रत्यक्षादेरपि सेवाकृष्यादौ प्रवृत्तस्य तदुपलम्भात् । तन्न प्रवृत्तितोऽपि तदवसायः । सुनिश्चितसंवाददर्शनान्तरसमानसामग्रीप्रभवत्वादिति चेत्; न; तदन्तरेऽपि तथाविधतदन्तरसमानसामग्री प्रभवत्वेन तदवसायकल्पनायामनवस्थाप्रसङ्गात् । सामग्री च तस्यार्थगर्भेव" अर्थकार्यज्ञानवादिनः ।
२०
३५६
३०
परीक्षाक्षमवाक्यार्थपरिनिष्ठितचेतसाम् ।
अदृष्टदोषाशङ्कायामन्यत्रापि प्रसज्यते || ७६ || इति ।
१ -क्तिजिह्वया आ०, ब०, प० । २- क्षमत्व प्र- श्र० ब०, प० । ३ च ततस्त - श्रा०, ब०, प० । ४ तेषां ज्ञानं श्रा०, ब०, प० । ५ - पयति च श्रा०, ब०, प० । ६ तेषां च नि- प्रा०, ब०, प० । ७ - तं बलमवलम्बयतोऽपि आ०, ब०, प० । ८ - शङ्कितत्वं प० । ६ तथैव श्रा०, ब०, प० । १० - गतार्थं
-आ०, ब०, प० ।